Posted in

Sri Lakshmi Ashtottara Shatanama Stotram in Hindi – Laxmi slokam

Lakshmi Devi is draped in red saree, bedecked with gold ornaments, seated on a lotus, pot in hand, flanked by white elephants, the image of Lakshmi adorns most Hindu homes and business establishments.

Lakshmi is the goddess of wealth, fortune, power, luxury, beauty, fertility, and auspiciousness. She holds the promise of material fulfillment and contentment. She is described as restless, whimsical yet maternal, with her arms raised to bless and to grant.

॥ Lakshmi Ashtottara Shatanama Stotram Sanskrit Lyrics ॥

श्रीलक्ष्म्यष्टोत्तरशतनामस्तोत्रम्

एतत्स्तोत्रं महालक्ष्मीर्महेशना इत्यारब्धस्य
सहस्रनामस्तोत्रस्याङ्गभूतम् ।

ब्रह्मजा ब्रह्मसुखदा ब्रह्मण्या ब्रह्मरूपिणी ।
सुमतिः सुभगा सुन्दा प्रयतिर्नियतिर्यतिः ॥ १ ॥

सर्वप्राणस्वरूपा च सर्वेन्द्रियसुखप्रदा ।
संविन्मयी सदाचारा सदातुष्टा सदानता ॥ २ ॥

कौमुदी कुमुदानन्दा कुः कुत्सिततमोहरी ।
हृदयार्तिहरी हारशोभिनी हानिवारिणी ॥ ३ ॥

सम्भाज्या संविभज्याऽऽज्ञा ज्यायसी जनिहारिणी ।
महाक्रोधा महातर्षा महर्षिजनसेविता ॥ ४ ॥

कैटभारिप्रिया कीर्तिः कीर्तिता कैतवोज्झिता ।
कौमुदी शीतलमनाः कौसल्यासुतभामिनी ॥ ५ ॥

कासारनाभिः का सा याऽऽप्येषेयत्ताविवर्जिता ।
अन्तिकस्थाऽतिदूरस्था हदयस्थाऽम्बुजस्थिता ॥ ६ ॥

मुनिचित्तस्थिता मौनिगम्या मान्धातृपूजिता ।
मतिस्थिरीकर्तृकार्यनित्यनिर्वहणोत्सुका ॥ ७ ॥

महीस्थिता च मध्यस्था द्युस्थिताऽधःस्थितोर्ध्वग ।
भूतिर्विभूतिः सुरभिः सुरसिद्धार्तिहारिणी ॥ ८ ॥

अतिभोगाऽतिदानाऽतिरूपाऽतिकरुणाऽतिभाः ।
विज्वरा वियदाभोगा वितन्द्रा विरहासहा ॥ ९ ॥

शूर्पकारातिजननी शून्यदोषा शुचिप्रिया ।
निःस्पृहा सस्पृहा नीलासपत्नी निधिदायिनी ॥ १० ॥

कुम्भस्तनी कुन्दरदा कुङ्कुमालेपिता कुजा ।
शास्त्रज्ञा शास्त्रजननी शास्त्रज्ञेया शरीरगा ॥ ११ ॥

सत्यभास्सत्यसङ्कल्पा सत्यकामा सरोजिनी ।
चन्द्रप्रिया चन्द्रगता चन्द्रा चन्द्रसहोदरी ॥ १२ ॥

औदर्यौपयिकी प्रीता गीता चौता गिरिस्थिता ।
अनन्विताऽप्यमूलार्तिध्वान्तपुञ्जरविप्रभा ॥ १३ ॥

मङ्गला मङ्गलपरा मृग्या मङ्गलदेवता ।
कोमला च महालक्ष्मीः नाम्नामष्टोत्तरं शतम् ।
फलश्रुतिः
नारद उवाच-
इत्येवं नामसाहस्रं साष्टोत्तरशतं श्रियः ।
कथितं ते महाराज भुक्तिमुक्तिफलप्रदम् ॥ १ ॥

भूतानामवताराणां तथा विष्णोर्भविष्यताम् ।
लक्ष्म्या नित्यानुगामिन्याः गुणकर्मानुसारतः ॥ २ ॥

उदाहृतानि नामानि सारभूतानि सर्वतः ।
इदन्तु नामसाहस्रं ब्रह्मणा कथितं मम ॥ ३ ॥

उपांशुवाचिकजपैः प्रीयेतास्य हरिप्रिया ।
लक्ष्मीनामसहस्रेण श्रुतेन पठितेन वा ॥ ४ ॥

धर्मार्थी धर्मलाभी स्यात् अर्थार्थी चार्थवान् भवेत् ।
कामार्थी लभते कामान् सुखार्थी लभते सुखम् ॥ ५ ॥

इहामुत्र च सौख्याय लक्ष्मीभक्तिहितङ्करी ।
इदं श्रीनामसाहस्रं रहस्यानां रहस्यकम् ॥ ६ ॥

गोप्यं त्वया प्रयत्नेन अपचारभयाच्छ्रियः ।
नैतद्व्रात्याय वक्तव्यं न मूर्खाय न दम्भिने ॥ ७ ॥

न नास्तिकाय नो वेदशास्त्रविक्रयकारिणे ।
वक्तव्यं भक्तियुक्ताय दरिद्राय च सीदते ॥ ८ ॥

सकृत्पठित्व श्रीदेव्याः नामसाहस्रमुत्तमम् ।
दारिद्र्यान्मुच्यते पुर्वं जन्मकोटिभवान्नरः ॥ ९ ॥

त्रिवारपठनादस्याः सर्वपापक्षयो भवेत् ।
पञ्चचत्वारिंशदहं सायं प्रातः पठेत्तु यः ॥ १० ॥

तस्य सन्निहिता लक्ष्मीः किमतोऽधिकमाप्यते ।
अमायां पौर्णमास्यां च भृगुवारेषु सङ्क्रमे ॥ ११ ॥

प्रातः स्नात्वा नित्यकर्म यथाविधि समाप्य च
स्वर्णपात्रेऽथ रजते कांस्यपात्रेऽथवा द्विजः ॥ १२ ॥

निक्षिप्य कुङ्कुमं तत्र लिखित्वाऽष्टदलाम्बुजम् ।
कर्णिकामध्यतो लक्ष्मीं बीजं साधु विलिख्य च ॥ १३ ॥

प्रागादिषु दलेष्वस्य वाणीब्राह्म्यादिमातृकाः ।
विलिख्य वर्णतोऽथेदं नामसाहस्रमादरात् ॥ १४ ॥

यः पठेत् तस्य लोकस्तु सर्वेऽपि वशगास्ततः ।
राज्यलाभः पुत्रपौत्रलाभः शत्रुजयस्तथा ॥ १५ ॥

सङ्कल्पादेव तस्य स्यात् नात्र कार्या विचारणा ।
अनेन नामसहस्रेणार्चयेत् कमलां यदि ॥ १६ ॥

कुङ्कुमेनाथ पुष्पैर्वा न तस्य स्यात्पराभवः ।
उत्तमोत्तमता प्रोक्ता कमलानामिहार्चने ॥ १७ ॥

तदभावे कुङ्कुमं स्यात् मल्लीपुष्पाञ्जलिस्ततः ।
जातीपुष्पाणि च ततः ततो मरुवकावलिः ॥ १८ ॥

पद्मानामेव रक्तत्वं श्लाघितं मुनिसत्तमैः ।
अन्येषां कुसुमानान्तु शौक्ल्यमेव शिवार्चने ॥ १९ ॥

प्रशस्तं नृपतिश्रेष्ठ तस्माद्यत्नपरो भवेत् ।
किमिहात्र बहूक्तेन लक्ष्मीनामसहस्रकम् ॥ २० ॥

वेदानां सरहस्यानां सर्वशास्त्रगिरामपि ।
तन्त्राणामपि सर्वेषां सारभूतं न संशयः ॥ २१ ॥

सर्वपापक्षयकरं सर्वशत्रुविनाशनम् ।
दारिद्र्यध्वंसनकरं पराभवनिवर्तकम् ॥ २२ ॥

विश्लिष्टबन्धुसंश्लेषकारकं सद्गतिप्रदम् ।
तन्वन्ते चिन्मयात्म्यैक्यबोधादानन्ददायकम् ॥ २३ ॥

लक्ष्मीनामसहस्रं तत् नरोऽवश्यं पठेत्सदा ।
योऽसौ तात्पर्यतः पाठी सर्वज्ञः सुखितो भवेत् ॥ २४ ॥

अकारादिक्षकारान्तनामभिः पूजयेत्सुधीः ।
तस्य सर्वेप्सितार्थसिद्धिर्भवति निश्चितम् ॥ २५ ॥

श्रियं वर्चसमारोग्यं शोभनं धान्यसम्पदः ।
पशूनां बहुपुत्राणां लाभश्च सम्भावेद्ध्रुवम् ॥ २६ ॥

शतसंवत्सरं विंशत्युतरं जीवितं भवेत् ।
मङ्गलानि तनोत्येषा श्रीविद्यामङ्गला शुभा ॥ २७ ॥

इति नारदीयोपपुराणान्तर्गतं श्रीलक्ष्म्यष्टोत्तरशतनामस्तोत्रं सम्पूर्णम् ।

– Chant Stotra in other Languages –

Sri Lakshmi Ashtottara Shatanama Stotram in Hindi – EnglishBengaliGujaratiKannadaMalayalamOriyaTeluguTamil

Leave a Reply

Your email address will not be published. Required fields are marked *

Posted in

Lakshmi Ashtottara Shatanama Stotram in Hindi – Sri Laxmi slokam

Meaning of Lakshmi Devi: Lakshmi in Sanskrit is derived from its elemental form lakS, meaning “to perceive or observe”. This is synonymous with laksya, meaning “aim” or “objective”.

Lakshmi Devi is draped in red saree, bedecked with gold ornaments, seated on a lotus, pot in hand, flanked by white elephants, the image of Lakshmi adorns most Hindu homes and business establishments.

Lakshmi is the goddess of wealth, fortune, power, luxury, beauty, fertility, and auspiciousness. She holds the promise of material fulfillment and contentment. She is described as restless, whimsical yet maternal, with her arms raised to bless and to grant.

॥ Sri Lakshmya Ashtottara Shatanama Stotram Sanskrit Lyrics ॥

॥ श्रीलक्ष्म्यष्टोत्तरशतनामस्तोत्रम् ॥

श्रीगणेशाय नमः ।
देव्युवाच
देवदेव महादेव त्रिकालज्ञ महेश्वर ।
करुणाकर देवेश भक्तानुग्रहकारक ॥ १ ॥
अष्टोत्तरशतं लक्ष्म्याः श्रोतुमिच्छामि तत्त्वतः ।

ईश्वर उवाच
देवि साधु महाभागे महाभाग्यप्रदायकम् ।
सर्वैश्वर्यकरं पुण्यं सर्वपापप्रणाशनम् ॥ २ ॥

सर्वदारिद्र्यशमनं श्रवणाद्भुक्तिमुक्तिदम् ।
राजवश्यकरं दिव्यं गुह्याद्गुह्यतमं परम् ॥ ३ ॥

दुर्लभं सर्वदेवानां चतुःषष्टिकलास्पदम् ।
पद्मादीनां वरान्तानां विधीनां नित्यदायकम् ॥ ४ ॥

समस्तदेवसंसेव्यमणिमाद्यष्टसिद्धिदम् ।
किमत्र बहुनोक्तेन देवी प्रत्यक्षदायकम् ॥ ५ ॥

तव प्रीत्याद्य वक्ष्यामि समाहितमनाः श‍ृणुं ।
अष्टोत्तरशतस्यास्य महालक्ष्मीस्तु देवता ॥ ६ ॥

क्लींबीजपदमित्युक्तं शक्तिस्तु भुवनेश्वरी ।
अङ्गन्यासः करन्यास स इत्यादिः प्रकीर्तितः ॥ ७ ॥

ध्यानम्
वन्दे पद्मकरां प्रसन्नवदनां सौभाग्यदां भाग्यदां
हस्ताभ्यामभयप्रदां मणिगणैर्नानाविधैर्भूषिताम् ।
भक्ताभीष्टफलप्रदां हरिहरब्रह्मादिभिः सेवितां
पार्श्वे पङ्कजशङ्खपद्मनिधिभिर्युक्तां सदा शक्तिभिः ॥ ८ ॥

सरसिजनयने सरोजहस्ते धवलतरांशुकगन्धमाल्यशोभे ।
भगवति हरिवल्लभे मनोज्ञे त्रिभुवनभूतिकरि प्रसीद मह्यम् ॥ ९ ॥

प्रकृतिं विकृतिं विद्यां सर्वभूतहितप्रदाम् ।
श्रद्धां विभूतिं सुरभिं नमामि परमात्मिकाम् ॥ १० ॥

वाचं पद्मालयां पद्मां शुचिं स्वाहां स्वधां सुधाम् ।
धन्यां हिरण्मयीं लक्ष्मीं नित्यपुष्टां विभावरीम् ॥ ११ ॥

अदितिं च दितिं दीप्तां वसुधां वसुधारिणीम् ।
नमामि कमलां कान्तां कामाक्षीं क्रोधसम्भवाम् ॥ १२ ॥ var कामा क्षीरोदसम्भवाम्
अनुग्रहपदां बुद्धिमनघां हरिवल्लभाम् ।
अशोकाममृतां दीप्तां लोकशोकविनाशिनीम् ॥ १३ ॥

नमामि धर्मनिलयां करुणां लोकमातरम् ।
पद्मप्रियां पद्महस्तां पद्माक्षीं पद्मसुन्दरीम् ॥ १४ ॥

पद्मोद्भवां पद्ममुखीं पद्मनाभप्रियां रमाम् ।
पद्ममालाधरां देवीं पद्मिनीं पद्मगन्धिनीम् ॥ १५ ॥

पुण्यगन्धां सुप्रसन्नां प्रसादाभिमुखीं प्रभाम् ।
नमामि चन्द्रवदनां चन्द्रां चन्द्रसहोदरीम् ॥ १६ ॥

चतुर्भुजां चन्द्ररूपामिन्दिरामिन्दुशीतलाम् ।
आह्लादजननीं पुष्टिं शिवां शिवकरीं सतीम् ॥ १७ ॥

विमलां विश्वजननीं तुष्टिं दारिद्र्यनाशिनीम् ।
प्रीतिपुष्करिणीं शान्तां शुक्लमाल्याम्बरां श्रियम् ॥ १८ ॥

भास्करीं बिल्वनिलयां वरारोहां यशस्विनीम् ।
वसुन्धरामुदाराङ्गीं हरिणीं हेममालिनीम् ॥ १९ ॥

धनधान्यकरीं सिद्धिं सदा सौम्यां शुभप्रदाम् ।
नृपवेश्मगतानन्दां वरलक्ष्मीं वसुप्रदाम् ॥ २० ॥

शुभां हिरण्यप्राकारां समुद्रतनयां जयाम् ।
नमामि मङ्गलां देवीं विष्णुवक्षःस्थलस्थिताम् ॥ २१ ॥

विष्णुपत्नीं प्रसन्नाक्षीं नारायणसमाश्रिताम् ।
दारिद्र्यध्वंसिनीं देवीं सर्वोपद्रवहारिणीम् ॥ २२ ॥

नवदुर्गां महाकालीं ब्रह्मविष्णुशिवात्मिकाम् ।
त्रिकालज्ञानसम्पन्नां नमामि भुवनेश्वरीम् ॥ २३ ॥

लक्ष्मीं क्षीरसमुद्रराजतनयां श्रीरङ्गधामेश्वरीं
दासीभूतसमस्तदेववनितां लोकैकदीपाङ्कुराम् ।
श्रीमन्मन्दकटाक्षलब्धविभवब्रह्मेन्द्रगङ्गाधरां त्वां
त्रैलोक्यकुटुम्बिनीं सरसिजां वन्दे मुकुन्दप्रियाम् ॥ २४ ॥

मातर्नमामि कमले कमलायताक्षि
श्रीविष्णुहृत्कमलवासिनि विश्वमातः ।
क्षीरोदजे कमलकोमलगर्भगौरि लक्ष्मि
प्रसीद सततं नमतां शरण्ये ॥ २५ ॥

त्रिकालं यो जपेद्विद्वान् षण्मासं विजितेन्द्रियः ।
दारिद्र्यध्वंसनं कृत्वा सर्वमाप्नोत्ययत्नतः ॥ २६ ॥

देवीनामसहस्रेषु पुण्यमष्टोत्तरं शतम् ।
येन श्रियमवाप्नोति कोटिजन्मदरिद्रतः ॥ २७ ॥

भृगुवारे शतं धीमान् पठेद्वत्सरमात्रकम् ।
अष्टैश्वर्यमवाप्नोति कुबेर इव भूतले ॥ २८ ॥

दारिद्र्यमोचनं नाम स्तोत्रमम्बापरं शतम् ।
येन श्रियमवाप्नोति कोटिजन्मदरिद्रितः ॥ २९ ॥

भुक्त्वा तु विपुलान् भोगानस्याः सायुज्यमाप्नुयात् ।
प्रातःकाले पठेन्नित्यं सर्वदुःखोपशान्तये ।
पठंस्तु चिन्तयेद्देवीं सर्वाभरणभूषिताम् ॥ ३० ॥

॥ इति श्रीलक्ष्म्यष्टोत्तरशतनामस्तोत्रं सम्पूर्णम् ॥

– Chant Stotra in other Languages –

Lakshmi Ashtottara Shatanama Stotram in Hindi – EnglishBengaliGujaratiKannadaMalayalamOriyaTeluguTamil

Leave a Reply

Your email address will not be published. Required fields are marked *