Posted in

Sri Vittala Kavacham in Hindi

Sri-Maha-Vishnu

॥ Sri Vittala Kavacham Sanskrit Lyrics ॥

॥ श्री विठ्ठल कवचम् ॥

ओं अस्य श्री विठ्ठलकवचस्तोत्र महामन्त्रस्य श्री पुरन्दर ऋषिः श्री गुरुः परमात्मा श्रीविठ्ठलो देवता अनुष्टुप् छन्दः श्री पुण्डरीक वरद इति बीजं रुक्मिणी रमापतिरिति शक्तिः पाण्डुरङ्गेश इति कीलकं श्री विठ्ठल प्रीत्यर्थे श्री विठ्ठलकवचस्तोत्र जपे विनियोगः ।

अथ न्यासः ।
ओं पुण्डरीकवरद इति अङ्गुष्ठाभ्यां नमः ।
ओं श्रीविठ्ठलपाण्डुरङ्गेश इति तर्जनीभ्यां नमः ।
ओं चन्द्रभागासरोवास इति मध्यमाभ्यां नमः ।
ओं व्रजशक्तिदण्डधर इति अनामिकाभ्यां नमः ।
ओं कलवम्शरहक्रान्त इति कनिष्ठिकाभ्यां नमः ।
ओं एनोन्तकृन्नामध्येय इति करतलकर पृष्ठाभ्यां नमः ।
एवं हृदयादि षडङ्गन्यासः ।

ध्यानम् ।
श्रीगुरुं विठ्ठलानन्दं परात्परजगत्प्रभुम् ।
त्रैलोक्यव्यापकं देवं शुद्धमत्यन्तनिर्मलम् ॥ १ ॥

सूत उवाच ।
शिरो मे विठ्ठलः पातु कपोलौ मुद्गरप्रियः ।
नेत्रयोर्विष्णुरूपी च वैकुण्ठो घ्राणमेव च ॥ १ ॥

मुखं पातु मुनिस्सेव्यो दन्तपङ्क्तिं सुरेश्वरः ।
विद्याधीशस्तु मे जिह्वां कण्ठं विश्वेशवन्दितः ॥ २ ॥

व्यापको हृदयं पातु स्कन्धौ पातु सुखप्रदः ।
भुजौ मे नृहरिः पातु करौ च सुरनायकः ॥ ३ ॥

मध्यं पातु सुराधीशो नाभिं पातु सुरालयः ।
सुरवन्द्यः कटिं पातु जानुनी कमलासनः ॥ ४ ॥

जङ्घे पातु हृषीकेशः पादौ पातु त्रिविक्रमः ।
अखिलं च शरीरं मे पातां गोविन्दमाधवौ ॥ ५ ॥

अकारो व्यापको विष्णुरक्षरात्मक एव च ।
पावकस्सर्वपापानामकाराय नमो नमः ॥ ६ ॥

तारकस्सर्वभूतानां धर्मशास्त्रेषु गीयते ।
पुनातु विश्वभुवनात्वोङ्काराय नमो नमः ॥ ७ ॥

मूलप्रकृतिरूपा या महामाया च वैष्णवी ।
तस्या बीजेन सम्युक्तो यकाराय नमो नमः ॥ ८ ॥

वैकुण्ठाधिपतिः साक्षाद्वैकुण्ठपददायकः ।
वैजयन्तीसमायुक्तो विकाराय नमो नमः ॥ ९ ॥

स्नातस्सर्वेषु तीर्थेषु पूतो यज्ञादिकर्मसु ।
पावनो द्विजपङ्क्तीनां टकाराय नमो नमः ॥ १० ॥

वाहनं गरुडो यस्य भुजङ्गश्शयनं तथा ।
वामभागे च लक्ष्मीश्च लकाराय नमो नमः ॥ ११ ॥

नारदादिसमायुक्तं वैष्णवं परमं पदम् ।
लभते मानवो नित्यं वैष्णवं धर्ममाश्रितः ॥ १२ ॥

व्याधयो विलयं यान्ति पूर्वकर्मसमुद्भवाः ।
भूतानि च पलायन्ते मन्त्रोपासकदर्शनात् ॥ १३ ॥

इदं षडक्षरं स्तोत्रं यो जपेच्छ्रद्धयान्वितः ।
विष्णुसायुज्यमाप्नोति सत्यं सत्यं न संशयः ॥ १४ ॥

इति श्रीपद्मपुराणे सूतशौनक संवादे विठ्ठलकवचम् ।

॥ – Chant Stotras in other Languages –


Sri Viththala Kavacham in Hindi – EnglishKannadaTeluguTamil

Leave a Reply

Your email address will not be published. Required fields are marked *