Posted in

Vasavi Kanyaka Parameshvari Ashtakam in Hindi – Vasavi Kanyaka slokam

Maa Durga Devi

॥ Vasavi Kanyaka Parameshvariashtakam Sanskrit Lyrics ॥

 ॥ श्रीवासवीकन्यकाष्टकम् ॥ 
नमो देव्यै सुभद्रायै कन्यकायै नमो नमः ।
शुभं कुरु महादेवि वासव्यैच नमो नमः ॥ १॥

जयायै चन्द्ररूपायै चण्डिकायै नमो नमः ।
शान्तिमावहनोदेवि वासव्यै ते नमो नमः ॥ २॥

नन्दायैते नमस्तेऽस्तु गौर्यै देव्यै नमो नमः ।
पाहिनः पुत्रदारांश्च वासव्यै ते नमो नमः ॥ ३॥

अपर्णायै नमस्तेऽस्तु कौसुंभ्यै ते नमो नमः ।
नमः कमलहस्तायै वासव्यै ते नमो नमः ॥ ४॥

चतुर्भुजायै शर्वाण्यै शुकपाण्यै नमो नमः ।
सुमुखायै नमस्तेऽस्तु वासव्यै ते नमो नमः ॥ ५॥

कमलायै नमस्तेऽस्तु विष्णुनेत्र कुलालये ।
मृडान्यैते नमस्तेऽस्तु वासव्यै ते नमो नमः ॥ ६॥

नमश्शीतलपादायै नमस्ते परमेश्वरी ।
श्रियं नोदेहि मातस्त्वं वासव्यै ते नमो नमः ॥ ७॥

त्वत्पादपद्मविन्यासं चन्द्रमण्डलशीतलं ।
गृहेषु सर्वदाऽस्माकं देहि श्रीपरमेश्वरि ॥ ८॥

ॐ बालारूपिणि विद्महे परमेश्वरि धीमहि । तन्नः कन्या प्रचोदयात् ।

इति श्रीवासवीकन्यकाष्टकं सम्पूर्णम् ।

– Chant Stotra in other Languages –

Vasavi Kanyaka Parameshvari Ashtakam – Ashtottara Shatanamavali in Hindi – EnglishBengaliGujaratiKannadaMalayalamOriyaTeluguTamil

Leave a Reply

Your email address will not be published. Required fields are marked *