Posted in

Apamrutyuharam Mahamrutyunjjaya Stotram in Marathi

Sri Shiva

॥ Apamrutyuharam Maha Mrutyunjjaya Stotram in Marathi ॥

॥ अपमृत्युहरं महामृत्युञ्जय स्तोत्रम ॥
अपमृत्युहरं महामृत्युञ्जय स्तोत्रम ।

औम अस्य श्रीमहामृत्यञ्जयस्तोत्रमन्त्रस्य श्रीमार्कण्डेय ऋषिः,
अनुष्टुप छन्दः, श्रीमृत्युञ्जयो देवता, गौरी शक्तिः,
मम सर्वारिष्टसमस्तमृत्युशान्त्यर्थं सकलैश्वर्यप्राप्त्यर्थं
च जपे विनियोगः ।

अथ ध्यानम ॥

चन्द्रार्काग्निविलोचनं स्मितमुखं पद्मद्वयान्तः स्थितं
मुद्रापाशमॄगाक्षसत्रविलसत्पाणिं हिमांशुप्रभुम ।

कोटीन्दुप्रगलत्सुधाप्लुततनुं हारादिभूषोज्ज्वलं
कान्तं विश्वविमोहनं पशुपतिं मॄत्युञ्जयं भावयेत ।

औम रुद्रं पशुपतिं स्थाणुं नीलकण्ठमुमापतिम ।
नमामि शिरसा देवं किं नो मृत्युः करिष्य़ति ॥ 1 ॥

नीलकण्ठं कालमूर्तिं कालज्ञं कालनाशनम ।
नमामि शिरसा देवं किं नो मृत्युः करिष्य़ति ॥ 2 ॥

नीलकण्ठं विरूपाक्षं निर्मलं निलयप्रभम ।
नमामि शिरसा देवं किं नो मृत्युः करिष्यति ॥ 3 ॥

वामदेवं महादेवं लोकनाथं जगद्गुरुम ।
नमामि शिरसा देवं किंनो मृत्युः करिष्यति ॥ 4 ॥

देवदेवं जगन्नाथं देवेशं वृषभध्वजम ।
नमामि शिरसा देवं किं नो मृत्युः करिष्यति ॥ 5 ॥

गङ्गाधरं महादेवं सर्वाभरणभूषितम ।
नमामि शिरसा देवं किं नो मृत्युः करिष्यति ॥ 6 ॥

अनाधः परमानन्दं कैवल्यपदगामिनि ।
नमामि शिरसा देवं किंनो मृत्युः करिष्यति ॥ 7 ॥

स्वर्गापवर्गदातारं सृष्टिस्थितिविनाशकम ।
नमामि शिरसा देवं किंनो मृत्युः करिष्यति ॥ 8 ॥

उत्पत्तिस्थितिसंहारं कर्तारमीश्वरं गुरुम ।
नमामि शिरसा देवं किं नो मृत्युः करिष्यति ॥ 9 ॥

मार्कण्डेयकृतं स्तोत्रं यः पठेच्छिवसन्निधौ ।
तस्य मॄत्युभयं नास्ति नाग्निचौरभयं क्वचित ॥ 10 ॥

शतावर्तं प्रकर्तव्यं सङ्कटे कष्टनाशनम ।
शुचिर्भूत्वा पठेत्स्तोत्रं सर्वसिद्धिप्रदायकम ॥ 11 ॥

मृत्युञ्जय महादेव त्राहि मां शरणागतम ।
जन्ममॄत्युजरारोगैः पीडितं कर्मबन्धनैः ॥ 12 ॥

तावतस्त्वद्गतप्राणस्त्वच्चित्तोऽहं सदा मृड ।
इति विज्ञाप्य देवेशं त्र्यंबकाख्यं मनुं जपेत ॥ 13 ॥

नमः शिवाय साम्बाय हरये परमात्मने ।
प्रणतक्लेशनाशाय योगिनां पतये नमः ॥ 14 ॥

शताङ्गायुर्मत्रः । औम ह्रीं श्रीं ह्रीं ह्रैं हः हन हन दह दह पच पच
गृहाण गृहाण मारय मारय मर्दय मर्दय महामहाभैरव भैरवरूपेण
धुनय धुनय कम्पय कम्पय विघ्नय विघ्नय विश्वेश्वर क्षोभय क्षोभय
कटुकटु मोहय मोहय हुं फट स्वाहा ॥
इति मन्त्रमात्रेण समाभीष्टो भवति ॥ 15 ॥

इति श्रीमार्कणडेयपुराणे मार्कण्डेयकृतमपमृत्युहरं
महा मृत्युञ्जयस्तोत्रं संपूर्णम ॥

– Chant Stotra in other Languages –

Apamrutyuharam Mahamrutyunjjaya Stotram in English – Marathi – Gujarati । BengaliHindiKannadaMalayalamTelugu

Leave a Reply

Your email address will not be published. Required fields are marked *