॥ Devi Stotram – Devi Mahatmyam Durga Saptashati Chapter 1 Sanskrit Lyrics ॥
॥ देवी माहात्म्यम् ॥
॥ श्रीदुर्गायै नमः ॥
॥ अथ श्रीदुर्गासप्तशती ॥
॥ मधुकैटभवधो नाम प्रथमोஉध्यायः ॥
अस्य श्री प्रधम चरित्रस्य ब्रह्मा ऋषिः । महाकाली देवता । गायत्री छन्दः । नन्दा शक्तिः । रक्त दन्तिका बीजम् । अग्निस्तत्वम् । ऋग्वेदः स्वरूपम् । श्री महाकाली प्रीत्यर्धे प्रधम चरित्र जपे विनियोगः ।
ध्यानं
खड्गं चक्र गदेषुचाप परिघा शूलं भुशुण्डीं शिरः
शंङ्खं सन्दधतीं करैस्त्रिनयनां सर्वांङ्गभूषावृताम् ।
यां हन्तुं मधुकैभौ जलजभूस्तुष्टाव सुप्ते हरौ
नीलाश्मद्युति मास्यपाददशकां सेवे महाकालिकां॥
ॐ नमश्चण्डिकायै
ॐ ऐं मार्कण्डेय उवाच ॥1॥
सावर्णिः सूर्यतनयो योमनुः कथ्यतेஉष्टमः।
निशामय तदुत्पत्तिं विस्तराद्गदतो मम ॥2॥
महामायानुभावेन यथा मन्वन्तराधिपः
स बभूव महाभागः सावर्णिस्तनयो रवेः ॥3॥
स्वारोचिषेஉन्तरे पूर्वं चैत्रवंशसमुद्भवः।
सुरथो नाम राजाஉभूत् समस्ते क्षितिमण्डले ॥4॥
तस्य पालयतः सम्यक् प्रजाः पुत्रानिवौरसान्।
बभूवुः शत्रवो भूपाः कोलाविध्वंसिनस्तदा ॥5॥
तस्य तैरभवद्युद्धम् अतिप्रबलदण्डिनः।
न्यूनैरपि स तैर्युद्धे कोलाविध्वंसिभिर्जितः ॥6॥
ततः स्वपुरमायातो निजदेशाधिपोஉभवत्।
आक्रान्तः स महाभागस्तैस्तदा प्रबलारिभिः ॥7॥
अमात्यैर्बलिभिर्दुष्टै र्दुर्बलस्य दुरात्मभिः।
कोशो बलं चापहृतं तत्रापि स्वपुरे ततः ॥8॥
ततो मृगयाव्याजेन हृतस्वाम्यः स भूपतिः।
एकाकी हयमारुह्य जगाम गहनं वनम् ॥9॥
सतत्राश्रममद्राक्षी द्द्विजवर्यस्य मेधसः।
प्रशान्तश्वापदाकीर्ण मुनिशिष्योपशोभितम् ॥10॥
तस्थौ कञ्चित्स कालं च मुनिना तेन सत्कृतः।
इतश्चेतश्च विचरंस्तस्मिन् मुनिवराश्रमे ॥11॥
सोஉचिन्तयत्तदा तत्र ममत्वाकृष्टचेतनः। ॥12॥
मत्पूर्वैः पालितं पूर्वं मयाहीनं पुरं हि तत्
मद्भृत्यैस्तैरसद्वृत्तैः र्धर्मतः पाल्यते न वा ॥13॥
न जाने स प्रधानो मे शूर हस्तीसदामदः
मम वैरिवशं यातः कान्भोगानुपलप्स्यते ॥14॥
ये ममानुगता नित्यं प्रसादधनभोजनैः
अनुवृत्तिं ध्रुवं तेஉद्य कुर्वन्त्यन्यमहीभृतां ॥15॥
असम्यग्व्ययशीलैस्तैः कुर्वद्भिः सततं व्ययं
सञ्चितः सोஉतिदुःखेन क्षयं कोशो गमिष्यति ॥16॥
एतच्चान्यच्च सततं चिन्तयामास पार्थिवः
तत्र विप्राश्रमाभ्याशे वैश्यमेकं ददर्श सः ॥17॥
स पृष्टस्तेन कस्त्वं भो हेतुश्च आगमनेஉत्र कः
सशोक इव कस्मात्वं दुर्मना इव लक्ष्यसे। ॥18॥
इत्याकर्ण्य वचस्तस्य भूपतेः प्रणायोदितम्
प्रत्युवाच स तं वैश्यः प्रश्रयावनतो नृपम् ॥19॥
वैश्य उवाच ॥20॥
समाधिर्नाम वैश्योஉहमुत्पन्नो धनिनां कुले
पुत्रदारैर्निरस्तश्च धनलोभाद् असाधुभिः ॥21॥
विहीनश्च धनैदारैः पुत्रैरादाय मे धनम्।
वनमभ्यागतो दुःखी निरस्तश्चाप्तबन्धुभिः ॥22॥
सोஉहं न वेद्मि पुत्राणां कुशलाकुशलात्मिकाम्।
प्रवृत्तिं स्वजनानां च दाराणां चात्र संस्थितः ॥23॥
किं नु तेषां गृहे क्षेमम् अक्षेमं किंनु साम्प्रतं
कथं तेकिंनुसद्वृत्ता दुर्वृत्ता किंनुमेसुताः ॥24॥
राजोवाच ॥25॥
यैर्निरस्तो भवांल्लुब्धैः पुत्रदारादिभिर्धनैः ॥26॥
तेषु किं भवतः स्नेह मनुबध्नाति मानसम् ॥27॥
वैश्य उवाच ॥28॥
एवमेतद्यथा प्राह भवानस्मद्गतं वचः
किं करोमि न बध्नाति मम निष्टुरतां मनः ॥29॥
ऐः सन्त्यज्य पितृस्नेहं धन लुब्धैर्निराकृतः
पतिःस्वजनहार्दं च हार्दितेष्वेव मे मनः। ॥30॥
किमेतन्नाभिजानामि जानन्नपि महामते
यत्प्रेम प्रवणं चित्तं विगुणेष्वपि बन्धुषु ॥31॥
तेषां कृते मे निःश्वासो दौर्मनस्यं चजायते ॥32॥
अरोमि किं यन्न मनस्तेष्वप्रीतिषु निष्ठुरम् ॥33॥
माकण्डेय उवाच ॥34॥
ततस्तौ सहितौ विप्र तंमुनिं समुपस्थितौ ॥35॥
समाधिर्नाम वैश्योஉसौ स च पार्धिव सत्तमः ॥36॥
कृत्वा तु तौ यथान्याय्यं यथार्हं तेन संविदम्।
उपविष्टौ कथाः काश्चित्च्चक्रतुर्वैश्यपार्धिवौ ॥37॥
राजोउवाच ॥38॥
भगव्ंस्त्वामहं प्रष्टुमिच्छाम्येकं वदस्वतत् ॥39॥
दुःखाय यन्मे मनसः स्वचित्तायत्ततां विना ॥40॥
मआनतोஉपि यथाज्ञस्य किमेतन्मुनिसत्तमः ॥41॥
अयं च इकृतः पुत्रैः दारैर्भृत्यैस्तथोज्घितः
स्वजनेन च सन्त्यक्तः स्तेषु हार्दी तथाप्यति ॥42॥
एव मेष तथाहं च द्वावप्त्यन्तदुःखितौ।
दृष्टदोषेஉपि विषये ममत्वाकृष्टमानसौ ॥43॥
तत्केनैतन्महाभाग यन्मोहो ज्ञानिनोरपि
ममास्य च भवत्येषा विवेकान्धस्य मूढता ॥44॥
ऋषिरुवाच ॥45॥
ज्ञान मस्ति समस्तस्य जन्तोर्व्षय गोचरे।
विषयश्च महाभाग यान्ति चैवं पृथक्पृथक् ॥46॥
केचिद्दिवा तथा रात्रौ प्राणिनः स्तुल्यदृष्टयः ॥47॥
ज्ञानिनो मनुजाः सत्यं किं तु ते न हि केवलम्।
यतो हि ज्ञानिनः सर्वे पशुपक्षिमृगादयः ॥48॥
ज्ञानं च तन्मनुष्याणां यत्तेषां मृगपक्षिणां
मनुष्याणां च यत्तेषां तुल्यमन्यत्तथोभयोः ॥49॥
ज्ञानेஉपि सति पश्यैतान् पतगाञ्छाबचञ्चुषु।
कणमोक्षादृतान् मोहात्पीड्यमानानपि क्षुधा ॥50॥
मानुषा मनुजव्याघ्र साभिलाषाः सुतान् प्रति
लोभात् प्रत्युपकाराय नन्वेतान् किं न पश्यसि ॥51॥
तथापि ममतावर्ते मोहगर्ते निपातिताः
महामाया प्रभावेण संसारस्थितिकारिणा ॥52॥
तन्नात्र विस्मयः कार्यो योगनिद्रा जगत्पतेः।
महामाया हरेश्चैषा तया सम्मोह्यते जगत् ॥53॥
ज्ङानिनामपि चेतांसि देवी भगवती हि सा
बलादाक्ष्यमोहाय महामाया प्रयच्छति ॥54॥
तया विसृज्यते विश्वं जगदेतच्चराचरम् ।
सैषा प्रसन्ना वरदा नृणां भवति मुक्तये ॥55॥
सा विद्या परमा मुक्तेर्हेतुभूता सनातनी
संसारबन्धहेतुश्च सैव सर्वेश्वरेश्वरी ॥56॥
राजोवाच ॥57॥
भगवन् काहि सा देवी मामायेति यां भवान् ।
ब्रवीति क्थमुत्पन्ना सा कर्मास्याश्च किं द्विज ॥58॥
यत्प्रभावा च सा देवी यत्स्वरूपा यदुद्भवा।
तत्सर्वं श्रोतुमिच्छामि त्वत्तो ब्रह्मविदां वर ॥59॥
ऋषिरुवाच ॥60॥
नित्यैव सा जगन्मूर्तिस्तया सर्वमिदं ततम् ॥61॥
तथापि तत्समुत्पत्तिर्बहुधा श्रूयतां ममः ॥62॥
देवानां कार्यसिद्ध्यर्थम् आविर्भवति सा यदा।
उत्पन्नेति तदा लोके सा नित्याप्यभिधीयते ॥63॥
योगनिद्रां यदा विष्णुर्जगत्येकार्णवीकृते।
आस्तीर्य शेषमभजत् कल्पान्ते भगवान् प्रभुः ॥64॥
तदा द्वावसुरौ घोरौ विख्यातौ मधुकैटभौ।
विष्णुकर्णमलोद्भूतौ हन्तुं ब्रह्माणमुद्यतौ ॥65॥
स नाभि कमले विष्णोः स्थितो ब्रह्मा प्रजापतिः
दृष्ट्वा तावसुरौ चोग्रौ प्रसुप्तं च जनार्दनम् ॥66॥
तुष्टाव योगनिद्रां तामेकाग्रहृदयः स्थितः
विबोधनार्धाय हरेर्हरिनेत्रकृतालयाम् ॥67॥
विश्वेश्वरीं जगद्धात्रीं स्थितिसंहारकारिणीम्।
निद्रां भगवतीं विष्णोरतुलां तेजसः प्रभुः ॥68॥
ब्रह्मोवाच ॥69॥
त्वं स्वाहा त्वं स्वधा त्वंहि वषट्कारः स्वरात्मिका।
सुधा त्वमक्षरे नित्ये त्रिधा मात्रात्मिका स्थिता ॥70॥
अर्धमात्रा स्थिता नित्या यानुच्चार्याविशेषतः
त्वमेव सा त्वं सावित्री त्वं देव जननी परा ॥71॥
त्वयैतद्धार्यते विश्वं त्वयैतत् सृज्यते जगत्।
त्वयैतत् पाल्यते देवि त्वमत्स्यन्ते च सर्वदा ॥72॥
विसृष्टौ सृष्टिरूपात्वं स्थिति रूपा च पालने।
तथा संहृतिरूपान्ते जगतोஉस्य जगन्मये ॥73॥
महाविद्या महामाया महामेधा महास्मृतिः।
महामोहा च भवती महादेवी महासुरी ॥74॥
प्रकृतिस्त्वं च सर्वस्य गुणत्रय विभाविनी।
कालरात्रिर्महारात्रिर्मोहरात्रिश्च दारुणा ॥75॥
त्वं श्रीस्त्वमीश्वरी त्वं ह्रीस्त्वं बुद्धिर्भोधलक्षणा।
लज्जापुष्टिस्तथा तुष्टिस्त्वं शान्तिः क्षान्ति रेव च ॥76॥
खड्गिनी शूलिनी घोरा गदिनी चक्रिणी तथा।
शङ्खिणी चापिनी बाणाभुशुण्डीपरिघायुधा ॥77॥
सौम्या सौम्यतराशेषसौम्येभ्यस्त्वतिसुन्दरी
परापराणां परमा त्वमेव परमेश्वरी ॥78॥
यच्च किञ्चित्क्वचिद्वस्तु सदसद्वाखिलात्मिके।
तस्य सर्वस्य या शक्तिः सा त्वं किं स्तूयसेमया ॥79॥
यया त्वया जगत् स्रष्टा जगत्पातात्ति यो जगत्।
सोஉपि निद्रावशं नीतः कस्त्वां स्तोतुमिहेश्वरः ॥80॥
विष्णुः शरीरग्रहणम् अहमीशान एव च
कारितास्ते यतोஉतस्त्वां कः स्तोतुं शक्तिमान् भवेत् ॥81॥
सा त्वमित्थं प्रभावैः स्वैरुदारैर्देवि संस्तुता।
मोहयैतौ दुराधर्षावसुरौ मधुकैटभौ ॥82॥
प्रबोधं च जगत्स्वामी नीयतामच्युता लघु ॥83॥
बोधश्च क्रियतामस्य हन्तुमेतौ महासुरौ ॥83॥
ऋषिरुवाच ॥84॥
एवं स्तुता तदा देवी तामसी तत्र वेधसा
विष्णोः प्रभोधनार्धाय निहन्तुं मधुकैटभौ ॥85॥
नेत्रास्यनासिकाबाहुहृदयेभ्यस्तथोरसः।
निर्गम्य दर्शने तस्थौ ब्रह्मणो अव्यक्तजन्मनः ॥86॥
उत्तस्थौ च जगन्नाथः स्तया मुक्तो जनार्दनः।
एकार्णवे अहिशयनात्ततः स ददृशे च तौ ॥87॥
मधुकैटभौ दुरात्माना वतिवीर्यपराक्रमौ
क्रोधरक्तेक्षणावत्तुं ब्रह्मणां जनितोद्यमौ ॥88॥
समुत्थाय ततस्ताभ्यां युयुधे भगवान् हरिः
पञ्चवर्षसहस्त्राणि बाहुप्रहरणो विभुः ॥89॥
तावप्यतिबलोन्मत्तौ महामायाविमोहितौ ॥90॥
उक्तवन्तौ वरोஉस्मत्तो व्रियतामिति केशवम् ॥91॥
श्री भगवानुवाच ॥92॥
भवेतामद्य मे तुष्टौ मम वध्यावुभावपि ॥93॥
किमन्येन वरेणात्र एतावृद्दि वृतं मम ॥94॥
ऋषिरुवाच ॥95॥
वञ्चिताभ्यामिति तदा सर्वमापोमयं जगत्।
विलोक्य ताभ्यां गदितो भगवान् कमलेक्षणः ॥96॥
आवां जहि न यत्रोर्वी सलिलेन परिप्लुता। ॥97॥
ऋषिरुवाच ॥98॥
तथेत्युक्त्वा भगवता शङ्खचक्रगदाभृता।
कृत्वा चक्रेण वै छिन्ने जघने शिरसी तयोः ॥99॥
एवमेषा समुत्पन्ना ब्रह्मणा संस्तुता स्वयम्।
प्रभावमस्या देव्यास्तु भूयः शृणु वदामि ते ॥100॥
॥ जय जय श्री स्वस्ति श्रीमार्कण्डेयपुराणे सावर्णिके मन्वन्तरे देवीमहात्म्ये मधुकैटभवधो नाम प्रधमोஉध्यायः ॥
आहुति
ॐ एं साङ्गायै सायुधायै सशक्तिकायै सपरिवारायै सवाहनायै एं बीजाधिष्टायै महा कालिकायै महा अहुतिं समर्पयामि नमः स्वाहा ॥
॥ Devi Mahatmyam Durga Saptashati Chapter 1 in English॥
॥ devi mahatmyam ॥
॥ sridurgayai namah ॥
॥ atha sridurgasaptasati ॥
॥ devi mahatmyam ॥
॥ sridurgayai namah ॥
॥ atha sridurgasaptasati ॥
॥ madhukaitabhavadho nama prathamoஉdhyayah ॥
asya sri pradhama caritrasya brahma rsih – mahakali devata – gayatri chandah – nanda saktih – rakta dantika bijam – agnistatvam – rgvedah svarupam – sri mahakali prityardhe pradhama caritra jape viniyogah ।
dhyanam
khadgam cakra gadesucapa parigha sulam bhusundim sirah
samnkham sandadhatim karaistrinayanam sarvamngabhusavrtam ।
yam hantum madhukaibhau jalajabhustustava supte harau
nilasmadyuti masyapadadasakam seve mahakalikam॥
om namascandikayai
om aim markandeya uvaca ॥1॥
savarnih suryatanayo yomanuh kathyateஉstamah।
nisamaya tadutpattim vistaradgadato mama ॥2॥
mahamayanubhavena yatha manvantaradhipah
sa babhuva mahabhagah savarnistanayo raveh ॥3॥
svarociseஉntare purvam caitravamsasamudbhavah।
suratho nama rajaஉbhut samaste ksitimandale ॥4॥
tasya palayatah samyak prajah putranivaurasan।
babhuvuh satravo bhupah kolavidhvamsinastada ॥5॥
tasya tairabhavadyuddham atiprabaladandinah।
nyunairapi sa tairyuddhe kolavidhvamsibhirjitah ॥6॥
tatah svapuramayato nijadesadhipoஉbhavat।
akrantah sa mahabhagastaistada prabalaribhih ॥7॥
amatyairbalibhirdustai rdurbalasya duratmabhih।
koso balam capahrtam tatrapi svapure tatah ॥8॥
tato mrgayavyajena hrtasvamyah sa bhupatih।
ekaki hayamaruhya jagama gahanam vanam ॥9॥
satatrasramamadraksi ddvijavaryasya medhasah।
prasantasvapadakirna munisisyopasobhitam ॥10॥
tasthau kañcitsa kalam ca munina tena satkrtah।
itascetasca vicaramstasmin munivarasrame ॥11॥
soஉcintayattada tatra mamatvakrstacetanah। ॥12॥
matpurvaih palitam purvam mayahinam puram hi tat
madbhrtyaistairasadvrttaih rdharmatah palyate na va ॥13॥
na jane sa pradhano me sura hastisadamadah
mama vairivasam yatah kanbhoganupalapsyate ॥14॥
ye mamanugata nityam prasadadhanabhojanaih
anuvrttim dhruvam teஉdya kurvantyanyamahibhrtam ॥15॥
asamyagvyayasilaistaih kurvadbhih satatam vyayam
sañcitah soஉtiduhkhena ksayam koso gamisyati ॥16॥
etaccanyacca satatam cintayamasa parthivah
tatra viprasramabhyase vaisyamekam dadarsa sah ॥17॥
sa prstastena kastvam bho hetusca agamaneஉtra kah
sasoka iva kasmatvam durmana iva laksyase। ॥18॥
ityakarnya vacastasya bhupateh pranayoditam
pratyuvaca sa tam vaisyah prasrayavanato nrpam ॥19॥
vaisya uvaca ॥20॥
samadhirnama vaisyoஉhamutpanno dhaninam kule
putradarairnirastasca dhanalobhad asadhubhih ॥21॥
vihinasca dhanaidaraih putrairadaya me dhanam।
vanamabhyagato duhkhi nirastascaptabandhubhih ॥22॥
soஉham na vedmi putranam kusalakusalatmikam।
pravrttim svajananam ca daranam catra samsthitah ॥23॥
kim nu tesam grhe ksemam aksemam kimnu sampratam
katham tekimnusadvrtta durvrtta kimnumesutah ॥24॥
rajovaca ॥25॥
yairnirasto bhavamllubdhaih putradaradibhirdhanaih ॥26॥
tesu kim bhavatah sneha manubadhnati manasam ॥27॥
vaisya uvaca ॥28॥
evametadyatha praha bhavanasmadgatam vacah
kim karomi na badhnati mama nisturatam manah ॥29॥
aih santyajya pitrsneham dhana lubdhairnirakrtah
patihsvajanahardam ca harditesveva me manah। ॥30॥
kimetannabhijanami janannapi mahamate
yatprema pravanam cittam vigunesvapi bandhusu ॥31॥
tesam krte me nihsvaso daurmanasyam cajayate ॥32॥
aromi kim yanna manastesvapritisu nisthuram ॥33॥
makandeya uvaca ॥34॥
tatastau sahitau vipra tammunim samupasthitau ॥35॥
samadhirnama vaisyoஉsau sa ca pardhiva sattamah ॥36॥
krtva tu tau yathanyayyam yatharham tena samvidam।
upavistau kathah kascit–ccakraturvaisyapardhivau ॥37॥
rajo–uvaca ॥38॥
bhagavmstvamaham prastumicchamyekam vadasvatat ॥39॥
duhkhaya yanme manasah svacittayattatam vina ॥40॥
maanatoஉpi yathanñasya kimetanmunisattamah ॥41॥
ayam ca ikrtah putraih darairbhrtyaistathojghitah
svajanena ca santyaktah stesu hardi tathapyati ॥42॥
eva mesa tathaham ca dvavaptyantaduhkhitau।
drstadoseஉpi visaye mamatvakrstamanasau ॥43॥
tatkenaitanmahabhaga yanmoho nñaninorapi
mamasya ca bhavatyesa vivekandhasya mudhata ॥44॥
rsiruvaca ॥45॥
nñana masti samastasya jantorvsaya gocare।
visayasca mahabhaga yanti caivam prthakprthak ॥46॥
keciddiva tatha ratrau praninah stulyadrstayah ॥47॥
nñanino manujah satyam kim tu te na hi kevalam।
yato hi nñaninah sarve pasupaksimrgadayah ॥48॥
nñanam ca tanmanusyanam yattesam mrgapaksinam
manusyanam ca yattesam tulyamanyattathobhayoh ॥49॥
nñaneஉpi sati pasyaitan patagañchabacañcusu।
kanamoksadrtan mohatpidyamananapi ksudha ॥50॥
manusa manujavyaghra sabhilasah sutan prati
lobhat pratyupakaraya nanvetan kim na pasyasi ॥51॥
tathapi mamatavarte mohagarte nipatitah
mahamaya prabhavena samsarasthitikarina ॥52॥
tannatra vismayah karyo yoganidra jagatpateh।
mahamaya harescaisa taya sammohyate jagat ॥53॥
jnaninamapi cetamsi devi bhagavati hi sa
baladaksyamohaya mahamaya prayacchati ॥54॥
taya visrjyate visvam jagadetaccaracaram ।
saisa prasanna varada nrnam bhavati muktaye ॥55॥
sa vidya parama mukterhetubhuta sanatani
samsarabandhahetusca saiva sarvesvaresvari ॥56॥
rajovaca ॥57॥
bhagavan kahi sa devi mamayeti yam bhavan ।
braviti kthamutpanna sa karmasyasca kim dvija ॥58॥
yatprabhava ca sa devi yatsvarupa yadudbhava।
tatsarvam srotumicchami tvatto brahmavidam vara ॥59॥
rsiruvaca ॥60॥
nityaiva sa jaganmurtistaya sarvamidam tatam ॥61॥
tathapi tatsamutpattirbahudha sruyatam mamah ॥62॥
devanam karyasiddhyartham avirbhavati sa yada।
utpanneti tada loke sa nityapyabhidhiyate ॥63॥
yoganidram yada visnurjagatyekarnavikrte।
astirya sesamabhajat kalpante bhagavan prabhuh ॥64॥
tada dvavasurau ghorau vikhyatau madhukaitabhau।
visnukarnamalodbhutau hantum brahmanamudyatau ॥65॥
sa nabhi kamale visnoh sthito brahma prajapatih
drstva tavasurau cograu prasuptam ca janardanam ॥66॥
tustava yoganidram tamekagrahrdayah sthitah
vibodhanardhaya harerharinetrakrtalayam ॥67॥
visvesvarim jagaddhatrim sthitisamharakarinim।
nidram bhagavatim visnoratulam tejasah prabhuh ॥68॥
brahmovaca ॥69॥
tvam svaha tvam svadha tvamhi vasatkarah svaratmika।
sudha tvamaksare nitye tridha matratmika sthita ॥70॥
ardhamatra sthita nitya yanuccaryavisesatah
tvameva sa tvam savitri tvam deva janani para ॥71॥
tvayaitaddharyate visvam tvayaitat srjyate jagat।
tvayaitat palyate devi tvamatsyante ca sarvada ॥72॥
visrstau srstirupatvam sthiti rupa ca palane।
tatha samhrtirupante jagatoஉsya jaganmaye ॥73॥
mahavidya mahamaya mahamedha mahasmrtih।
mahamoha ca bhavati mahadevi mahasuri ॥74॥
prakrtistvam ca sarvasya gunatraya vibhavini।
kalaratrirmaharatrirmoharatrisca daruna ॥75॥
tvam sristvamisvari tvam hristvam buddhirbhodhalaksana।
lajjapustistatha tustistvam santih ksanti reva ca ॥76॥
khadgini sulini ghora gadini cakrini tatha।
sankhini capini banabhusundiparighayudha ॥77॥
saumya saumyatarasesasaumyebhyastvatisundari
paraparanam parama tvameva paramesvari ॥78॥
yacca kiñcitkvacidvastu sadasadvakhilatmike।
tasya sarvasya ya saktih sa tvam kim stuyasemaya ॥79॥
yaya tvaya jagat srasta jagatpatatti yo jagat।
soஉpi nidravasam nitah kastvam stotumihesvarah ॥80॥
visnuh sariragrahanam ahamisana eva ca
karitaste yatoஉtastvam kah stotum saktiman bhavet ॥81॥
sa tvamittham prabhavaih svairudarairdevi samstuta।
mohayaitau duradharsavasurau madhukaitabhau ॥82॥
prabodham ca jagatsvami niyatamacyuta laghu ॥83॥
bodhasca kriyatamasya hantumetau mahasurau ॥83॥
rsiruvaca ॥84॥
evam stuta tada devi tamasi tatra vedhasa
visnoh prabhodhanardhaya nihantum madhukaitabhau ॥85॥
netrasyanasikabahuhrdayebhyastathorasah।
nirgamya darsane tasthau brahmano avyaktajanmanah ॥86॥
uttasthau ca jagannathah staya mukto janardanah।
ekarnave ahisayanattatah sa dadrse ca tau ॥87॥
madhukaitabhau duratmana vativiryaparakramau
krodharakteksanavattum brahmanam janitodyamau ॥88॥
samutthaya tatastabhyam yuyudhe bhagavan harih
pañcavarsasahastrani bahupraharano vibhuh ॥89॥
tavapyatibalonmattau mahamayavimohitau ॥90॥
uktavantau varoஉsmatto vriyatamiti kesavam ॥91॥
sri bhagavanuvaca ॥92॥
bhavetamadya me tustau mama vadhyavubhavapi ॥93॥
kimanyena varenatra etavrddi vrtam mama ॥94॥
rsiruvaca ॥95॥
vañcitabhyamiti tada sarvamapomayam jagat।
vilokya tabhyam gadito bhagavan kamaleksanah ॥96॥
avam jahi na yatrorvi salilena paripluta। ॥97॥
rsiruvaca ॥98॥
tathetyuktva bhagavata sankhacakragadabhrta।
krtva cakrena vai chinne jaghane sirasi tayoh ॥99॥
evamesa samutpanna brahmana samstuta svayam।
prabhavamasya devyastu bhuyah srnu vadami te ॥100॥
॥ jaya jaya sri svasti srimarkandeyapurane savarnike manvantare devimahatmye madhukaitabhavadho nama pradhamoஉdhyayah ॥
ahuti
om em sangayai sayudhayai sasaktikayai saparivarayai savahanayai em bijadhistayai maha kalikayai maha ahutim samarpayami namah svaha ॥
