Posted in

1000 Names of Vishnu – Sahasranama Stotram in Hindi

Sri-Maha-Vishnu

॥ Sri Vishnu Sahasranamastotram Sanskrit Lyrics ॥

॥ श्रीविष्णुसहस्रनामस्तोत्रम् ॥

नारायणं नमस्कृत्य नरं चैव नरोत्तमम् ।
देवीं सरस्वतीं व्यासं ततो जयमुदीरयेत् ॥

ॐ अथ सकलसौभाग्यदायक श्रीविष्णुसहस्रनामस्तोत्रम् ।

शुक्लाम्बरधरं विष्णुं शशिवर्णं चतुर्भुजम् ।
प्रसन्नवदनं ध्यायेत् सर्वविघ्नोपशान्तये ॥ १ ॥

यस्य द्विरदवक्त्राद्याः पारिषद्याः परः शतम् ।
विघ्नं निघ्नन्ति सततं विष्वक्सेनं तमाश्रये ॥ २ ॥

व्यासं वसिष्ठनप्तारं शक्तेः पौत्रमकल्मषम् ।
पराशरात्मजं वन्दे शुकतातं तपोनिधिम् ॥ ३ ॥

व्यासाय विष्णुरूपाय व्यासरूपाय विष्णवे ।
नमो वै ब्रह्मनिधये वासिष्ठाय नमो नमः ॥ ४ ॥

अविकाराय शुद्धाय नित्याय परमात्मने ।
सदैकरूपरूपाय विष्णवे सर्वजिष्णवे ॥ ५ ॥

यस्य स्मरणमात्रेण जन्मसंसारबन्धनात् ।
विमुच्यते नमस्तस्मै विष्णवे प्रभविष्णवे ॥ ६ ॥

ॐ नमो विष्णवे प्रभविष्णवे ।
श्रीवैशम्पायन उवाच —
श्रुत्वा धर्मानशेषेण पावनानि च सर्वशः ।
युधिष्ठिरः शान्तनवं पुनरेवाभ्यभाषत ॥ ७ ॥

युधिष्ठिर उवाच —
किमेकं दैवतं लोके किं वाप्येकं परायणम् ।
स्तुवन्तः कं कमर्चन्तः प्राप्नुयुर्मानवाः शुभम् ॥ ८ ॥

को धर्मः सर्वधर्माणां भवतः परमो मतः ।
किं जपन्मुच्यते जन्तुर्जन्मसंसारबन्धनात् ॥ ९ ॥

भीष्म उवाच —
जगत्प्रभुं देवदेवमनन्तं पुरुषोत्तमम् ।
स्तुवन् नामसहस्रेण पुरुषः सततोत्थितः ॥ १० ॥

तमेव चार्चयन्नित्यं भक्त्या पुरुषमव्ययम् ।
ध्यायन् स्तुवन् नमस्यंश्च यजमानस्तमेव च ॥ ११ ॥

अनादिनिधनं विष्णुं सर्वलोकमहेश्वरम् ।
लोकाध्यक्षं स्तुवन्नित्यं सर्वदुःखातिगो भवेत् ॥ १२ ॥

ब्रह्मण्यं सर्वधर्मज्ञं लोकानां कीर्तिवर्धनम् ।
लोकनाथं महद्भूतं सर्वभूतभवोद्भवम् ॥ १३ ॥

एष मे सर्वधर्माणां धर्मोऽधिकतमो मतः ।
यद्भक्त्या पुण्डरीकाक्षं स्तवैरर्चेन्नरः सदा ॥ १४ ॥

परमं यो महत्तेजः परमं यो महत्तपः ।
परमं यो महद्ब्रह्म परमं यः परायणम् ॥ १५ ॥

पवित्राणां पवित्रं यो मङ्गलानां च मङ्गलम् ।
दैवतं दैवतानां च भूतानां योऽव्ययः पिता ॥ १६ ॥

यतः सर्वाणि भूतानि भवन्त्यादियुगागमे ।
यस्मिंश्च प्रलयं यान्ति पुनरेव युगक्षये ॥ १७ ॥

तस्य लोकप्रधानस्य जगन्नाथस्य भूपते ।
विष्णोर्नामसहस्रं मे श‍ृणु पापभयापहम् ॥ १८ ॥

यानि नामानि गौणानि विख्यातानि महात्मनः ।
ऋषिभिः परिगीतानि तानि वक्ष्यामि भूतये ॥ १९ ॥

ऋषिर्नाम्नां सहस्रस्य वेदव्यासो महामुनिः ॥

छन्दोऽनुष्टुप् तथा देवो भगवान् देवकीसुतः ॥ २० ॥

अमृतांशूद्भवो बीजं शक्तिर्देवकिनन्दनः ।
त्रिसामा हृदयं तस्य शान्त्यर्थे विनियोज्यते ॥ २१ ॥

विष्णुं जिष्णुं महाविष्णुं प्रभविष्णुं महेश्वरम् ॥

अनेकरूप दैत्यान्तं नमामि पुरुषोत्तमं ॥ २२ ॥

पूर्वन्यासः ।
श्रीवेदव्यास उवाच —
ॐ अस्य श्रीविष्णोर्दिव्यसहस्रनामस्तोत्रमहामन्त्रस्य ।
श्री वेदव्यासो भगवान् ऋषिः ।
अनुष्टुप् छन्दः ।
श्रीमहाविष्णुः परमात्मा श्रीमन्नारायणो देवता ।
अमृतांशूद्भवो भानुरिति बीजम् ।
देवकीनन्दनः स्रष्टेति शक्तिः ।
उद्भवः क्षोभणो देव इति परमो मन्त्रः ।
शङ्खभृन्नन्दकी चक्रीति कीलकम् ।
शार्ङ्गधन्वा गदाधर इत्यस्त्रम् ।
रथाङ्गपाणिरक्षोभ्य इति नेत्रम् ।
त्रिसामा सामगः सामेति कवचम् ।
आनन्दं परब्रह्मेति योनिः ।
ऋतुः सुदर्शनः काल इति दिग्बन्धः ॥

श्रीविश्वरूप इति ध्यानम् ।
श्रीमहाविष्णुप्रीत्यर्थे सहस्रनामस्तोत्रपाठे विनियोगः ॥

अथ न्यासः ।
ॐ शिरसि वेदव्यासऋषये नमः ।
मुखे अनुष्टुप्छन्दसे नमः ।
हृदि श्रीकृष्णपरमात्मदेवतायै नमः ।
गुह्ये अमृतांशूद्भवो भानुरिति बीजाय नमः ।
पादयोर्देवकीनन्दनः स्रष्टेति शक्तये नमः ।
सर्वाङ्गे शङ्खभृन्नन्दकी चक्रीति कीलकाय नमः ।
करसम्पूटे मम श्रीकृष्णप्रीत्यर्थे जपे विनियोगाय नमः ॥

इति ऋषयादिन्यासः ॥

अथ करन्यासः ।
ॐ विश्वं विष्णुर्वषट्कार इत्यङ्गुष्ठाभ्यां नमः ।
अमृतांशूद्भवो भानुरिति तर्जनीभ्यां नमः ।
ब्रह्मण्यो ब्रह्मकृद्ब्रह्मेति मध्यमाभ्यां नमः ।
सुवर्णबिन्दुरक्षोभ्य इत्यनामिकाभ्यां नमः ।
निमिषोऽनिमिषः स्रग्वीति कनिष्ठिकाभ्यां नमः ।
रथाङ्गपाणिरक्षोभ्य इति करतलकरपृष्ठाभ्यां नमः ।
इति करन्यासः ।
अथ षडङ्गन्यासः ।
ॐ विश्वं विष्णुर्वषट्कार इति हृदयाय नमः ।
अमृतांशूद्भवो भानुरिति शिरसे स्वाहा ।
ब्रह्मण्यो ब्रह्मकृद्ब्रह्मेति शिखायै वषट् ।
सुवर्णबिन्दुरक्षोभ्य इति कवचाय हुम् ।
निमिषोऽनिमिषः स्रग्वीति नेत्रत्रयाय वौषट् ।
रथाङ्गपाणिरक्षोभ्य इत्यस्त्राय फट् ।
इति षडङ्गन्यासः ॥

श्रीकृष्णप्रीत्यर्थे विष्णोर्दिव्यसहस्रनामजपमहं
करिष्ये इति सङ्कल्पः ।
अथ ध्यानम् ।
क्षीरोदन्वत्प्रदेशे शुचिमणिविलसत्सैकतेर्मौक्तिकानां
मालाकॢप्तासनस्थः स्फटिकमणिनिभैर्मौक्तिकैर्मण्डिताङ्गः ।
शुभ्रैरभ्रैरदभ्रैरुपरिविरचितैर्मुक्तपीयूष वर्षैः
आनन्दी नः पुनीयादरिनलिनगदा शङ्खपाणिर्मुकुन्दः ॥ १ ॥

भूः पादौ यस्य नाभिर्वियदसुरनिलश्चन्द्र सूर्यौ च नेत्रे
कर्णावाशाः शिरो द्यौर्मुखमपि दहनो यस्य वास्तेयमब्धिः ।
अन्तःस्थं यस्य विश्वं सुरनरखगगोभोगिगन्धर्वदैत्यैः
चित्रं रंरम्यते तं त्रिभुवन वपुषं विष्णुमीशं नमामि ॥ २ ॥

ॐ शान्ताकारं भुजगशयनं पद्मनाभं सुरेशं
विश्वाधारं गगनसदृशं मेघवर्णं शुभाङ्गम् ।
लक्ष्मीकान्तं कमलनयनं योगिभिर्ध्यानगम्यं var योगिहृद्ध्यानगम्यं
वन्दे विष्णुं भवभयहरं सर्वलोकैकनाथम् ॥ ३ ॥

मेघश्यामं पीतकौशेयवासं
श्रीवत्साङ्कं कौस्तुभोद्भासिताङ्गम् ।
पुण्योपेतं पुण्डरीकायताक्षं
विष्णुं वन्दे सर्वलोकैकनाथम् ॥ ४ ॥

नमः समस्तभूतानामादिभूताय भूभृते ।
अनेकरूपरूपाय विष्णवे प्रभविष्णवे ॥ ५ ॥

सशङ्खचक्रं सकिरीटकुण्डलं
सपीतवस्त्रं सरसीरुहेक्षणम् ।
सहारवक्षःस्थलकौस्तुभश्रियं var स्थलशोभिकौस्तुभं
नमामि विष्णुं शिरसा चतुर्भुजम् ॥ ६ ॥

छायायां पारिजातस्य हेमसिंहासनोपरि
आसीनमम्बुदश्याममायताक्षमलंकृतम् ।
चन्द्राननं चतुर्बाहुं श्रीवत्साङ्कित वक्षसं
रुक्मिणी सत्यभामाभ्यां सहितं कृष्णमाश्रये ॥ ७ ॥

स्तोत्रम् ।
हरिः ॐ ।
विश्वं विष्णुर्वषट्कारो भूतभव्यभवत्प्रभुः ।
भूतकृद्भूतभृद्भावो भूतात्मा भूतभावनः ॥ १ ॥

पूतात्मा परमात्मा च मुक्तानां परमा गतिः ।
अव्ययः पुरुषः साक्षी क्षेत्रज्ञोऽक्षर एव च ॥ २ ॥

योगो योगविदां नेता प्रधानपुरुषेश्वरः ।
नारसिंहवपुः श्रीमान् केशवः पुरुषोत्तमः ॥ ३ ॥

सर्वः शर्वः शिवः स्थाणुर्भूतादिर्निधिरव्ययः ।
सम्भवो भावनो भर्ता प्रभवः प्रभुरीश्वरः ॥ ४ ॥

स्वयम्भूः शम्भुरादित्यः पुष्कराक्षो महास्वनः ।
अनादिनिधनो धाता विधाता धातुरुत्तमः ॥ ५ ॥

अप्रमेयो हृषीकेशः पद्मनाभोऽमरप्रभुः ।
विश्वकर्मा मनुस्त्वष्टा स्थविष्ठः स्थविरो ध्रुवः ॥ ६ ॥

अग्राह्यः शाश्वतः कृष्णो लोहिताक्षः प्रतर्दनः ।
प्रभूतस्त्रिककुब्धाम पवित्रं मङ्गलं परम् ॥ ७ ॥

ईशानः प्राणदः प्राणो ज्येष्ठः श्रेष्ठः प्रजापतिः ।
हिरण्यगर्भो भूगर्भो माधवो मधुसूदनः ॥ ८ ॥

ईश्वरो विक्रमी धन्वी मेधावी विक्रमः क्रमः ।
अनुत्तमो दुराधर्षः कृतज्ञः कृतिरात्मवान् ॥ ९ ॥

सुरेशः शरणं शर्म विश्वरेताः प्रजाभवः ।
अहः संवत्सरो व्यालः प्रत्ययः सर्वदर्शनः ॥ १० ॥

अजः सर्वेश्वरः सिद्धः सिद्धिः सर्वादिरच्युतः ।
वृषाकपिरमेयात्मा सर्वयोगविनिःसृतः ॥ ११ ॥

वसुर्वसुमनाः सत्यः समात्माऽसम्मितः समः ।
अमोघः पुण्डरीकाक्षो वृषकर्मा वृषाकृतिः ॥ १२ ॥

रुद्रो बहुशिरा बभ्रुर्विश्वयोनिः शुचिश्रवाः ।
अमृतः शाश्वतस्थाणुर्वरारोहो महातपाः ॥ १३ ॥

सर्वगः सर्वविद्भानुर्विष्वक्सेनो जनार्दनः ।
वेदो वेदविदव्यङ्गो वेदाङ्गो वेदवित् कविः ॥ १४ ॥

लोकाध्यक्षः सुराध्यक्षो धर्माध्यक्षः कृताकृतः ।
चतुरात्मा चतुर्व्यूहश्चतुर्दंष्ट्रश्चतुर्भुजः ॥ १५ ॥

भ्राजिष्णुर्भोजनं भोक्ता सहिष्णुर्जगदादिजः ।
अनघो विजयो जेता विश्वयोनिः पुनर्वसुः ॥ १६ ॥

उपेन्द्रो वामनः प्रांशुरमोघः शुचिरूर्जितः ।
अतीन्द्रः सङ्ग्रहः सर्गो धृतात्मा नियमो यमः ॥ १७ ॥

वेद्यो वैद्यः सदायोगी वीरहा माधवो मधुः ।
अतीन्द्रियो महामायो महोत्साहो महाबलः ॥ १८ ॥

महाबुद्धिर्महावीर्यो महाशक्तिर्महाद्युतिः ।
अनिर्देश्यवपुः श्रीमानमेयात्मा महाद्रिधृक् ॥ १९ ॥

महेष्वासो महीभर्ता श्रीनिवासः सतां गतिः ।
अनिरुद्धः सुरानन्दो गोविन्दो गोविदां पतिः ॥ २० ॥

मरीचिर्दमनो हंसः सुपर्णो भुजगोत्तमः ।
हिरण्यनाभः सुतपाः पद्मनाभः प्रजापतिः ॥ २१ ॥

अमृत्युः सर्वदृक् सिंहः सन्धाता सन्धिमान् स्थिरः ।
अजो दुर्मर्षणः शास्ता विश्रुतात्मा सुरारिहा ॥ २२ ॥

गुरुर्गुरुतमो धाम सत्यः सत्यपराक्रमः ।
निमिषोऽनिमिषः स्रग्वी वाचस्पतिरुदारधीः ॥ २३ ॥

अग्रणीर्ग्रामणीः श्रीमान् न्यायो नेता समीरणः ।
सहस्रमूर्धा विश्वात्मा सहस्राक्षः सहस्रपात् ॥ २४ ॥

आवर्तनो निवृत्तात्मा संवृतः सम्प्रमर्दनः ।
अहः संवर्तको वह्निरनिलो धरणीधरः ॥ २५ ॥

सुप्रसादः प्रसन्नात्मा विश्वधृग्विश्वभुग्विभुः ।
सत्कर्ता सत्कृतः साधुर्जह्नुर्नारायणो नरः ॥ २६ ॥

असङ्ख्येयोऽप्रमेयात्मा विशिष्टः शिष्टकृच्छुचिः ।
सिद्धार्थः सिद्धसङ्कल्पः सिद्धिदः सिद्धिसाधनः ॥ २७ ॥

वृषाही वृषभो विष्णुर्वृषपर्वा वृषोदरः ।
वर्धनो वर्धमानश्च विविक्तः श्रुतिसागरः ॥ २८ ॥

सुभुजो दुर्धरो वाग्मी महेन्द्रो वसुदो वसुः ।
नैकरूपो बृहद्रूपः शिपिविष्टः प्रकाशनः ॥ २९ ॥

ओजस्तेजोद्युतिधरः प्रकाशात्मा प्रतापनः ।
ऋद्धः स्पष्टाक्षरो मन्त्रश्चन्द्रांशुर्भास्करद्युतिः ॥ ३० ॥

अमृतांशूद्भवो भानुः शशबिन्दुः सुरेश्वरः ।
औषधं जगतः सेतुः सत्यधर्मपराक्रमः ॥ ३१ ॥

भूतभव्यभवन्नाथः पवनः पावनोऽनलः ।
कामहा कामकृत्कान्तः कामः कामप्रदः प्रभुः ॥ ३२ ॥

युगादिकृद्युगावर्तो नैकमायो महाशनः ।
अदृश्यो व्यक्तरूपश्च सहस्रजिदनन्तजित् ॥ ३३ ॥

इष्टोऽविशिष्टः शिष्टेष्टः शिखण्डी नहुषो वृषः ।
क्रोधहा क्रोधकृत्कर्ता विश्वबाहुर्महीधरः ॥ ३४ ॥

अच्युतः प्रथितः प्राणः प्राणदो वासवानुजः ।
अपांनिधिरधिष्ठानमप्रमत्तः प्रतिष्ठितः ॥ ३५ ॥

स्कन्दः स्कन्दधरो धुर्यो वरदो वायुवाहनः ।
वासुदेवो बृहद्भानुरादिदेवः पुरन्दरः ॥ ३६ ॥

अशोकस्तारणस्तारः शूरः शौरिर्जनेश्वरः ।
अनुकूलः शतावर्तः पद्मी पद्मनिभेक्षणः ॥ ३७ ॥

पद्मनाभोऽरविन्दाक्षः पद्मगर्भः शरीरभृत् ।
महर्द्धिरृद्धो वृद्धात्मा महाक्षो गरुडध्वजः ॥ ३८ ॥

अतुलः शरभो भीमः समयज्ञो हविर्हरिः ।
सर्वलक्षणलक्षण्यो लक्ष्मीवान् समितिञ्जयः ॥ ३९ ॥

विक्षरो रोहितो मार्गो हेतुर्दामोदरः सहः ।
महीधरो महाभागो वेगवानमिताशनः ॥ ४० ॥

उद्भवः क्षोभणो देवः श्रीगर्भः परमेश्वरः ।
करणं कारणं कर्ता विकर्ता गहनो गुहः ॥ ४१ ॥

व्यवसायो व्यवस्थानः संस्थानः स्थानदो ध्रुवः ।
परर्द्धिः परमस्पष्टस्तुष्टः पुष्टः शुभेक्षणः ॥ ४२ ॥

रामो विरामो विरजो मार्गो नेयो नयोऽनयः । or विरामो विरतो
वीरः शक्तिमतां श्रेष्ठो धर्मो धर्मविदुत्तमः ॥ ४३ ॥

वैकुण्ठः पुरुषः प्राणः प्राणदः प्रणवः पृथुः ।
हिरण्यगर्भः शत्रुघ्नो व्याप्तो वायुरधोक्षजः ॥ ४४ ॥

ऋतुः सुदर्शनः कालः परमेष्ठी परिग्रहः ।
उग्रः संवत्सरो दक्षो विश्रामो विश्वदक्षिणः ॥ ४५ ॥

विस्तारः स्थावरस्थाणुः प्रमाणं बीजमव्ययम् ।
अर्थोऽनर्थो महाकोशो महाभोगो महाधनः ॥ ४६ ॥

अनिर्विण्णः स्थविष्ठोऽभूर्धर्मयूपो महामखः ।
नक्षत्रनेमिर्नक्षत्री क्षमः क्षामः समीहनः ॥ ४७ ॥

यज्ञ इज्यो महेज्यश्च क्रतुः सत्रं सतां गतिः ।
सर्वदर्शी विमुक्तात्मा सर्वज्ञो ज्ञानमुत्तमम् ॥ ४८ ॥

सुव्रतः सुमुखः सूक्ष्मः सुघोषः सुखदः सुहृत् ।
मनोहरो जितक्रोधो वीरबाहुर्विदारणः ॥ ४९ ॥

स्वापनः स्ववशो व्यापी नैकात्मा नैककर्मकृत् ।
वत्सरो वत्सलो वत्सी रत्नगर्भो धनेश्वरः ॥ ५० ॥

धर्मगुब्धर्मकृद्धर्मी सदसत्क्षरमक्षरम् ।
अविज्ञाता सहस्रांशुर्विधाता कृतलक्षणः ॥ ५१ ॥

गभस्तिनेमिः सत्त्वस्थः सिंहो भूतमहेश्वरः ।
आदिदेवो महादेवो देवेशो देवभृद्गुरुः ॥ ५२ ॥

उत्तरो गोपतिर्गोप्ता ज्ञानगम्यः पुरातनः ।
शरीरभूतभृद्भोक्ता कपीन्द्रो भूरिदक्षिणः ॥ ५३ ॥

सोमपोऽमृतपः सोमः पुरुजित्पुरुसत्तमः ।
विनयो जयः सत्यसन्धो दाशार्हः सात्वताम्पतिः ॥ ५४ ॥

जीवो विनयिता साक्षी मुकुन्दोऽमितविक्रमः ।
अम्भोनिधिरनन्तात्मा महोदधिशयोऽन्तकः ॥ ५५ ॥

अजो महार्हः स्वाभाव्यो जितामित्रः प्रमोदनः ।
आनन्दो नन्दनो नन्दः सत्यधर्मा त्रिविक्रमः ॥ ५६ ॥

महर्षिः कपिलाचार्यः कृतज्ञो मेदिनीपतिः ।
त्रिपदस्त्रिदशाध्यक्षो महाश‍ृङ्गः कृतान्तकृत् ॥ ५७ ॥

महावराहो गोविन्दः सुषेणः कनकाङ्गदी ।
गुह्यो गभीरो गहनो गुप्तश्चक्रगदाधरः ॥ ५८ ॥

वेधाः स्वाङ्गोऽजितः कृष्णो दृढः सङ्कर्षणोऽच्युतः ।
वरुणो वारुणो वृक्षः पुष्कराक्षो महामनाः ॥ ५९ ॥

भगवान् भगहाऽऽनन्दी वनमाली हलायुधः ।
आदित्यो ज्योतिरादित्यः सहिष्णुर्गतिसत्तमः ॥ ६० ॥

सुधन्वा खण्डपरशुर्दारुणो द्रविणप्रदः ।
दिवस्पृक् सर्वदृग्व्यासो वाचस्पतिरयोनिजः ॥ ६१ ॥ var दिविस्पृक्
त्रिसामा सामगः साम निर्वाणं भेषजं भिषक् ।
संन्यासकृच्छमः शान्तो निष्ठा शान्तिः परायणम् ॥ ६२ ॥

शुभाङ्गः शान्तिदः स्रष्टा कुमुदः कुवलेशयः ।
गोहितो गोपतिर्गोप्ता वृषभाक्षो वृषप्रियः ॥ ६३ ॥

अनिवर्ती निवृत्तात्मा सङ्क्षेप्ता क्षेमकृच्छिवः ।
श्रीवत्सवक्षाः श्रीवासः श्रीपतिः श्रीमतांवरः ॥ ६४ ॥

श्रीदः श्रीशः श्रीनिवासः श्रीनिधिः श्रीविभावनः ।
श्रीधरः श्रीकरः श्रेयः श्रीमाँल्लोकत्रयाश्रयः ॥ ६५ ॥

स्वक्षः स्वङ्गः शतानन्दो नन्दिर्ज्योतिर्गणेश्वरः ।
विजितात्माऽविधेयात्मा सत्कीर्तिश्छिन्नसंशयः ॥ ६६ ॥

उदीर्णः सर्वतश्चक्षुरनीशः शाश्वतस्थिरः ।
भूशयो भूषणो भूतिर्विशोकः शोकनाशनः ॥ ६७ ॥

अर्चिष्मानर्चितः कुम्भो विशुद्धात्मा विशोधनः ।
अनिरुद्धोऽप्रतिरथः प्रद्युम्नोऽमितविक्रमः ॥ ६८ ॥

कालनेमिनिहा वीरः शौरिः शूरजनेश्वरः ।
त्रिलोकात्मा त्रिलोकेशः केशवः केशिहा हरिः ॥ ६९ ॥

कामदेवः कामपालः कामी कान्तः कृतागमः ।
अनिर्देश्यवपुर्विष्णुर्वीरोऽनन्तो धनञ्जयः ॥ ७० ॥

ब्रह्मण्यो ब्रह्मकृद् ब्रह्मा ब्रह्म ब्रह्मविवर्धनः ।
ब्रह्मविद् ब्राह्मणो ब्रह्मी ब्रह्मज्ञो ब्राह्मणप्रियः ॥ ७१ ॥

महाक्रमो महाकर्मा महातेजा महोरगः ।
महाक्रतुर्महायज्वा महायज्ञो महाहविः ॥ ७२ ॥

स्तव्यः स्तवप्रियः स्तोत्रं स्तुतिः स्तोता रणप्रियः ।
पूर्णः पूरयिता पुण्यः पुण्यकीर्तिरनामयः ॥ ७३ ॥

मनोजवस्तीर्थकरो वसुरेता वसुप्रदः ।
वसुप्रदो वासुदेवो वसुर्वसुमना हविः ॥ ७४ ॥

सद्गतिः सत्कृतिः सत्ता सद्भूतिः सत्परायणः ।
शूरसेनो यदुश्रेष्ठः सन्निवासः सुयामुनः ॥ ७५ ॥

भूतावासो वासुदेवः सर्वासुनिलयोऽनलः ।
दर्पहा दर्पदो दृप्तो दुर्धरोऽथापराजितः ॥ ७६ ॥

विश्वमूर्तिर्महामूर्तिर्दीप्तमूर्तिरमूर्तिमान् ।
अनेकमूर्तिरव्यक्तः शतमूर्तिः शताननः ॥ ७७ ॥

एको नैकः सवः कः किं यत् तत्पदमनुत्तमम् ।
लोकबन्धुर्लोकनाथो माधवो भक्तवत्सलः ॥ ७८ ॥

सुवर्णवर्णो हेमाङ्गो वराङ्गश्चन्दनाङ्गदी ।
वीरहा विषमः शून्यो घृताशीरचलश्चलः ॥ ७९ ॥

अमानी मानदो मान्यो लोकस्वामी त्रिलोकधृक् ।
सुमेधा मेधजो धन्यः सत्यमेधा धराधरः ॥ ८० ॥

तेजोवृषो द्युतिधरः सर्वशस्त्रभृतां वरः ।
प्रग्रहो निग्रहो व्यग्रो नैकश‍ृङ्गो गदाग्रजः ॥ ८१ ॥

चतुर्मूर्तिश्चतुर्बाहुश्चतुर्व्यूहश्चतुर्गतिः ।
चतुरात्मा चतुर्भावश्चतुर्वेदविदेकपात् ॥ ८२ ॥

समावर्तोऽनिवृत्तात्मा दुर्जयो दुरतिक्रमः ।
दुर्लभो दुर्गमो दुर्गो दुरावासो दुरारिहा ॥ ८३ ॥

शुभाङ्गो लोकसारङ्गः सुतन्तुस्तन्तुवर्धनः ।
इन्द्रकर्मा महाकर्मा कृतकर्मा कृतागमः ॥ ८४ ॥

उद्भवः सुन्दरः सुन्दो रत्ननाभः सुलोचनः ।
अर्को वाजसनः श‍ृङ्गी जयन्तः सर्वविज्जयी ॥ ८५ ॥

सुवर्णबिन्दुरक्षोभ्यः सर्ववागीश्वरेश्वरः ।
महाह्रदो महागर्तो महाभूतो महानिधिः ॥ ८६ ॥

कुमुदः कुन्दरः कुन्दः पर्जन्यः पावनोऽनिलः ।
अमृताशोऽमृतवपुः सर्वज्ञः सर्वतोमुखः ॥ ८७ ॥

सुलभः सुव्रतः सिद्धः शत्रुजिच्छत्रुतापनः ।
न्यग्रोधोऽदुम्बरोऽश्वत्थश्चाणूरान्ध्रनिषूदनः ॥ ८८ ॥

सहस्रार्चिः सप्तजिह्वः सप्तैधाः सप्तवाहनः ।
अमूर्तिरनघोऽचिन्त्यो भयकृद्भयनाशनः ॥ ८९ ॥

अणुर्बृहत्कृशः स्थूलो गुणभृन्निर्गुणो महान् ।
अधृतः स्वधृतः स्वास्यः प्राग्वंशो वंशवर्धनः ॥ ९० ॥

भारभृत् कथितो योगी योगीशः सर्वकामदः ।
आश्रमः श्रमणः क्षामः सुपर्णो वायुवाहनः ॥ ९१ ॥

धनुर्धरो धनुर्वेदो दण्डो दमयिता दमः ।
अपराजितः सर्वसहो नियन्ताऽनियमोऽयमः ॥ ९२ ॥

सत्त्ववान् सात्त्विकः सत्यः सत्यधर्मपरायणः ।
अभिप्रायः प्रियार्होऽर्हः प्रियकृत् प्रीतिवर्धनः ॥ ९३ ॥

विहायसगतिर्ज्योतिः सुरुचिर्हुतभुग्विभुः ।
रविर्विरोचनः सूर्यः सविता रविलोचनः ॥ ९४ ॥

अनन्तो हुतभुग्भोक्ता सुखदो नैकजोऽग्रजः ।
अनिर्विण्णः सदामर्षी लोकाधिष्ठानमद्भुतः ॥ ९५ ॥

सनात्सनातनतमः कपिलः कपिरव्ययः ।
स्वस्तिदः स्वस्तिकृत्स्वस्ति स्वस्तिभुक्स्वस्तिदक्षिणः ॥ ९६ ॥

अरौद्रः कुण्डली चक्री विक्रम्यूर्जितशासनः ।
शब्दातिगः शब्दसहः शिशिरः शर्वरीकरः ॥ ९७ ॥

अक्रूरः पेशलो दक्षो दक्षिणः क्षमिणांवरः ।
विद्वत्तमो वीतभयः पुण्यश्रवणकीर्तनः ॥ ९८ ॥

उत्तारणो दुष्कृतिहा पुण्यो दुःस्वप्ननाशनः ।
वीरहा रक्षणः सन्तो जीवनः पर्यवस्थितः ॥ ९९ ॥

अनन्तरूपोऽनन्तश्रीर्जितमन्युर्भयापहः ।
चतुरश्रो गभीरात्मा विदिशो व्यादिशो दिशः ॥ १०० ॥

अनादिर्भूर्भुवो लक्ष्मीः सुवीरो रुचिराङ्गदः ।
जननो जनजन्मादिर्भीमो भीमपराक्रमः ॥ १०१ ॥

आधारनिलयोऽधाता पुष्पहासः प्रजागरः ।
ऊर्ध्वगः सत्पथाचारः प्राणदः प्रणवः पणः ॥ १०२ ॥

प्रमाणं प्राणनिलयः प्राणभृत्प्राणजीवनः ।
तत्त्वं तत्त्वविदेकात्मा जन्ममृत्युजरातिगः ॥ १०३ ॥

भूर्भुवःस्वस्तरुस्तारः सविता प्रपितामहः ।
यज्ञो यज्ञपतिर्यज्वा यज्ञाङ्गो यज्ञवाहनः ॥ १०४ ॥

यज्ञभृद् यज्ञकृद् यज्ञी यज्ञभुग् यज्ञसाधनः ।
यज्ञान्तकृद् यज्ञगुह्यमन्नमन्नाद एव च ॥ १०५ ॥

आत्मयोनिः स्वयञ्जातो वैखानः सामगायनः ।
देवकीनन्दनः स्रष्टा क्षितीशः पापनाशनः ॥ १०६ ॥

शङ्खभृन्नन्दकी चक्री शार्ङ्गधन्वा गदाधरः ।
रथाङ्गपाणिरक्षोभ्यः सर्वप्रहरणायुधः ॥ १०७ ॥

सर्वप्रहरणायुध ॐ नम इति ।
वनमाली गदी शार्ङ्गी शङ्खी चक्री च नन्दकी ।
श्रीमान् नारायणो विष्णुर्वासुदेवोऽभिरक्षतु ॥ १०८ ॥

श्री वासुदेवोऽभिरक्षतु ॐ नम इति ।
उत्तरन्यासः ।
भीष्म उवाच —
इतीदं कीर्तनीयस्य केशवस्य महात्मनः ।
नाम्नां सहस्रं दिव्यानामशेषेण प्रकीर्तितम् ॥ १ ॥

य इदं श‍ृणुयान्नित्यं यश्चापि परिकीर्तयेत् ।
नाशुभं प्राप्नुयात्किञ्चित्सोऽमुत्रेह च मानवः ॥ २ ॥

वेदान्तगो ब्राह्मणः स्यात्क्षत्रियो विजयी भवेत् ।
वैश्यो धनसमृद्धः स्याच्छूद्रः सुखमवाप्नुयात् ॥ ३ ॥

धर्मार्थी प्राप्नुयाद्धर्ममर्थार्थी चार्थमाप्नुयात् ।
कामानवाप्नुयात्कामी प्रजार्थी प्राप्नुयात्प्रजाम् ॥ ४ ॥

भक्तिमान् यः सदोत्थाय शुचिस्तद्गतमानसः ।
सहस्रं वासुदेवस्य नाम्नामेतत्प्रकीर्तयेत् ॥ ५ ॥

यशः प्राप्नोति विपुलं ज्ञातिप्राधान्यमेव च ।
अचलां श्रियमाप्नोति श्रेयः प्राप्नोत्यनुत्तमम् ॥ ६ ॥

न भयं क्वचिदाप्नोति वीर्यं तेजश्च विन्दति ।
भवत्यरोगो द्युतिमान्बलरूपगुणान्वितः ॥ ७ ॥

रोगार्तो मुच्यते रोगाद्बद्धो मुच्येत बन्धनात् ।
भयान्मुच्येत भीतस्तु मुच्येतापन्न आपदः ॥ ८ ॥

दुर्गाण्यतितरत्याशु पुरुषः पुरुषोत्तमम् ।
स्तुवन्नामसहस्रेण नित्यं भक्तिसमन्वितः ॥ ९ ॥

वासुदेवाश्रयो मर्त्यो वासुदेवपरायणः ।
सर्वपापविशुद्धात्मा याति ब्रह्म सनातनम् ॥ १० ॥

न वासुदेवभक्तानामशुभं विद्यते क्वचित् ।
जन्ममृत्युजराव्याधिभयं नैवोपजायते ॥ ११ ॥

इमं स्तवमधीयानः श्रद्धाभक्तिसमन्वितः ।
युज्येतात्मसुखक्षान्तिश्रीधृतिस्मृतिकीर्तिभिः ॥ १२ ॥

न क्रोधो न च मात्सर्यं न लोभो नाशुभा मतिः ।
भवन्ति कृत पुण्यानां भक्तानां पुरुषोत्तमे ॥ १३ ॥

द्यौः सचन्द्रार्कनक्षत्रा खं दिशो भूर्महोदधिः ।
वासुदेवस्य वीर्येण विधृतानि महात्मनः ॥ १४ ॥

ससुरासुरगन्धर्वं सयक्षोरगराक्षसम् ।
जगद्वशे वर्ततेदं कृष्णस्य सचराचरम् ॥ १५ ॥

इन्द्रियाणि मनो बुद्धिः सत्त्वं तेजो बलं धृतिः ।
वासुदेवात्मकान्याहुः क्षेत्रं क्षेत्रज्ञ एव च ॥ १६ ॥

सर्वागमानामाचारः प्रथमं परिकल्प्यते । var?? कल्पते
आचारप्रभवो धर्मो धर्मस्य प्रभुरच्युतः ॥ १७ ॥

ऋषयः पितरो देवा महाभूतानि धातवः ।
जङ्गमाजङ्गमं चेदं जगन्नारायणोद्भवम् ॥ १८ ॥

योगो ज्ञानं तथा साङ्ख्यं विद्याः शिल्पादि कर्म च ।
वेदाः शास्त्राणि विज्ञानमेतत्सर्वं जनार्दनात् ॥ १९ ॥

एको विष्णुर्महद्भूतं पृथग्भूतान्यनेकशः ।
त्रींल्लोकान्व्याप्य भूतात्मा भुङ्क्ते विश्वभुगव्ययः ॥ २० ॥

इमं स्तवं भगवतो विष्णोर्व्यासेन कीर्तितम् ।
पठेद्य इच्छेत्पुरुषः श्रेयः प्राप्तुं सुखानि च ॥ २१ ॥

विश्वेश्वरमजं देवं जगतः प्रभुमव्ययम् ।
भजन्ति ये पुष्कराक्षं न ते यान्ति पराभवम् ॥ २२ ॥

न ते यान्ति पराभवम् ॐ नम इति ।
अर्जुन उवाच —
पद्मपत्रविशालाक्ष पद्मनाभ सुरोत्तम ।
भक्तानामनुरक्तानां त्राता भव जनार्दन ॥ २३ ॥

श्रीभगवानुवाच —
यो मां नामसहस्रेण स्तोतुमिच्छति पाण्डव ।
सोहऽमेकेन श्लोकेन स्तुत एव न संशयः ॥ २४ ॥

स्तुत एव न संशय ॐ नम इति ।
व्यास उवाच —
वासनाद्वासुदेवस्य वासितं भुवनत्रयम् ।
सर्वभूतनिवासोऽसि वासुदेव नमोऽस्तु ते ॥ २५ ॥

श्री वासुदेव नमोऽस्तुत ॐ नम इति ।
पार्वत्युवाच —
केनोपायेन लघुना विष्णोर्नामसहस्रकम् ।
पठ्यते पण्डितैर्नित्यं श्रोतुमिच्छाम्यहं प्रभो ॥ २६ ॥

ईश्वर उवाच —
श्रीराम राम रामेति रमे रामे मनोरमे ।
सहस्रनाम तत्तुल्यं राम नाम वरानने ॥ २७ ॥

श्रीरामनाम वरानन ॐ नम इति ।
ब्रह्मोवाच —
नमोऽस्त्वनन्ताय सहस्रमूर्तये
सहस्रपादाक्षिशिरोरुबाहवे ।
सहस्रनाम्ने पुरुषाय शाश्वते
सहस्रकोटियुगधारिणे नमः ॥ २८ ॥

सहस्रकोटियुगधारिणे ॐ नम इति ।

ॐ तत्सदिति श्रीमहाभारते शतसाहस्र्यां संहितायां वैयासिक्यामानुशासनिके
पर्वणि भीष्मयुधिष्ठिरसंवादे श्रीविष्णोर्दिव्यसहस्रनामस्तोत्रम् ॥

सञ्जय उवाच —
यत्र योगेश्वरः कृष्णो यत्र पार्थो धनुर्धरः ।
तत्र श्रीर्विजयो भूतिर्ध्रुवा नीतिर्मतिर्मम ॥ २९ ॥

श्रीभगवानुवाच —
अनन्याश्चिन्तयन्तो मां ये जनाः पर्युपासते ।
तेषां नित्याभियुक्तानां योगक्षेमं वहाम्यहम् ॥ ३० ॥

परित्राणाय साधूनां विनाशाय च दुष्कृताम् ।
धर्मसंस्थापनार्थाय सम्भवामि युगे युगे ॥ ३१ ॥

आर्ताः विषण्णाः शिथिलाश्च भीताः घोरेषु च व्याधिषु वर्तमानाः ।
सङ्कीर्त्य नारायणशब्दमात्रं विमुक्तदुःखाः सुखिनो भवन्ति ॥ ३२ ॥

कायेन वाचा मनसेन्द्रियैर्वा बुद्ध्यात्मना वा प्रकृतेः स्वभावात् । var प्रकृतिस्वभावात् ।
करोमि यद्यत् सकलं परस्मै नारायणायेति समर्पयामि ॥ ३३ ॥

इति श्रीविष्णोर्दिव्यसहस्रनामस्तोत्रं सम्पूर्णम् ।
ॐ तत् सत् ।

महाभारते अनुशासनपर्वणि

Additional Concluding Shlokas
ॐ आपदामपहर्तारं दातारं सर्वसम्पदाम् ।
लोकाभिरामं श्रीरामं भूयो भूयो नमाम्यहम् ॥

आर्तानामार्तिहन्तारं भीतानां भीतिनाशनम् ।
द्विषतां कालदण्डं तं रामचन्द्रं नमाम्यहम् ॥

नमः कोदण्डहस्ताय सन्धीकृतशराय च ।
खण्डिताखिलदैत्याय रामायऽऽपन्निवारिणे ॥

रामाय रामभद्राय रामचन्द्राय वेधसे ।
रघुनाथाय नाथाय सीतायाः पतये नमः ॥

अग्रतः पृष्ठतश्चैव पार्श्वतश्च महाबलौ ।
आकर्णपूर्णधन्वानौ रक्षेतां रामलक्ष्मणौ ॥

सन्नद्धः कवची खड्गी चापबाणधरो युवा ।
गच्छन् ममाग्रतो नित्यं रामः पातु सलक्ष्मणः ॥

अच्युतानन्तगोविन्द नामोच्चारणभेषजात् ।
नश्यन्ति सकला रोगास्सत्यं सत्यं वदाम्यहम् ॥

सत्यं सत्यं पुनस्सत्यमुद्धृत्य भुजमुच्यते ।
वेदाच्छास्त्रं परं नास्ति न देवं केशवात्परम् ॥

शरीरे जर्झरीभूते व्याधिग्रस्ते कळेवरे ।
औषधं जाह्नवीतोयं वैद्यो नारायणो हरिः ॥

आलोड्य सर्वशास्त्राणि विचार्य च पुनः पुनः ।
इदमेकं सुनिष्पन्नं ध्येयो नारायणो हरिः ॥

यदक्षरपदभ्रष्टं मात्राहीनं तु यद्भवेत् ।
तत्सर्वं क्षम्यतां देव नारायण नमोऽस्तु ते ॥

विसर्गबिन्दुमात्राणि पदपादाक्षराणि च ।
न्यूनानि चातिरिक्तानि क्षमस्व पुरुषोत्तम ॥

Alternate Concluding Shlokas
नमः कमलनाभाय नमस्ते जलशायिने ।
नमस्ते केशवानन्त वासुदेव नमोऽस्तुते ॥

नमो ब्रह्मण्यदेवाय गोब्राह्मणहिताय च ।
जगद्धिताय कृष्णाय गोविन्दाय नमो नमः ॥

आकाशात्पतितं तोयं यथा गच्छति सागरम् ।
सर्वदेवनमस्कारः केशवं प्रति गच्छति ॥

एष निष्कण्टकः पन्था यत्र सम्पूज्यते हरिः ।
कुपथं तं विजानीयाद् गोविन्दरहितागमम् ॥

सर्ववेदेषु यत्पुण्यं सर्वतीर्थेषु यत्फलम् ।
तत्फलं समवाप्नोति स्तुत्वा देवं जनार्दनम् ॥

यो नरः पठते नित्यं त्रिकालं केशवालये ।
द्विकालमेककालं वा क्रूरं सर्वं व्यपोहति ॥

दह्यन्ते रिपवस्तस्य सौम्याः सर्वे सदा ग्रहाः ।
विलीयन्ते च पापानि स्तवे ह्यस्मिन् प्रकीर्तिते ॥

येने ध्यातः श्रुतो येन येनायं पठ्यते स्तवः ।
दत्तानि सर्वदानानि सुराः सर्वे समर्चिताः ॥

इह लोके परे वापि न भयं विद्यते क्वचित् ।
नाम्नां सहस्रं योऽधीते द्वादश्यां मम सन्निधौ ॥

शनैर्दहन्ति पापानि कल्पकोटीशतानि च ।
अश्वत्थसन्निधौ पार्थ ध्यात्वा मनसि केशवम् ॥

पठेन्नामसहस्रं तु गवां कोटिफलं लभेत् ।
शिवालये पठेनित्यं तुलसीवनसंस्थितः ॥

नरो मुक्तिमवाप्नोति चक्रपाणेर्वचो यथा ।
ब्रह्महत्यादिकं घोरं सर्वपापं विनश्यति ॥

विलयं यान्ति पापानि चान्यपापस्य का कथा ।
सर्वपापविनिर्मुक्तो विष्णुलोकं स गच्छति ॥

॥ हरिः ॐ तत्सत् ॥

– Chant Stotra in other Languages -1000 Names of Sri Visnu:

1000 Names of Vishnu – Sahasranama Stotram in Hindi – EnglishBengaliGujaratiKannadaMalayalamOriyaTeluguTamil

Leave a Reply

Your email address will not be published. Required fields are marked *

Posted in

1000 Names of Sri Vishnu – Sahasranama Stotram in Hindi

Sri-Maha-Vishnu

॥ Vishnu Sahasranamastotram Sanskrit Lyrics ॥

॥ श्रीविष्णुसहस्रनामस्तोत्रं नारदपञ्चरात्रे ॥

श्रीनारदपञ्चरात्रे ज्ञानामृतसारे चतुर्थरात्रे

श्रीमहादेव उवाच-
ब्रह्महत्यासहस्राणां पापं शाम्येत् कथञ्चन ।
न पुनस्त्वय्यविज्ञाते कल्पकोटिशतैरपि ॥ १ ॥

यस्मान्न या कृता स्पर्धा पवित्रं स्यात्कथं हरे ।
नश्यन्ति सर्वपापानि तन्मां वद सुरेश्वर ।
तदाह देवो गोविन्द मम प्रीत्या यथायथम् ॥ २ ॥

श्रीभगवानुवाच-
सदा नामसहस्रं मे पावनं मत्पदावहम् ।
तत्परोऽनुदिनं शम्भो सर्वैश्वर्यं यदीच्छसि ॥ ३ ॥

श्रीमहादेव उवाच-
तमेव तपसा नित्यं भजामि स्तौमि चिन्तये ।
तेनाद्वितीयमहिमो जगत्पूज्योऽस्मि पार्वति ! ॥ ४ ॥

श्रीपार्वत्युवाच-
तन्मे कथय देवेश यथाहमपि शङ्कर ! ।
सर्वेश्वरी निरूपमा तव स्यां सदृशी प्रभो ! ॥ ५ ॥

श्रीमहादेव उवाच-
साधु ! साधु ! त्वया पृष्टो विष्णोर्भगवतः शिवे ! ।
नाम्नां सहस्रं वक्ष्यामि मुख्यं त्रैलोक्यमङ्गलम् ॥ ६ ॥

ॐ नमोनारायणाय पुरुषोत्तमाय च महात्मने ।
विशुद्धसद्माधिष्ठाय महाहंसाय धीमहि ॥ ७ ॥

विनियोगः
ॐ अस्य श्रीविष्णोः सहस्रनाममन्त्रस्य महादेव ऋषिः । अनुष्टुप्छन्दः ।
परमात्मा देवता । सूर्यकोटिप्रतीकाश इति बीजम् । गङ्गातीर्थोत्तमा शक्तिः ।
प्रपन्नाशनिपञ्जर इति कीलकम् । दिव्यास्त्र इत्यस्रम् । सर्वपापक्षयार्थं
सर्वाभीष्टसिद्ध्यर्थं श्रीविष्णोर्नामसहस्रजपे विनियोगः ।

ऋष्यादिन्यासः
ॐ महादेवाय ऋषये नमः इति शिरसि ॥ १ ॥

अनुष्टुप् छन्दसे नमः मुखे ॥ २ ॥

परमात्मदेवतायै नमः हृदि ॥ ३ ॥

सूर्यकोटिप्रतीकाशबीजाय नमः गुह्ये ॥ ४ ॥

गङ्गातीर्थोत्तमशक्त्ये नमः पादयोः ॥ ५ ॥

प्रसन्नाशनिपञ्जरकीलकाय नमः नाभौ ॥ ६ ॥

विनियोगाय नमः सर्वाङ्गे ॥ ७ ॥

करन्यासः
ॐ वासुदेवः परं ब्रह्म इत्यङ्गुष्ठाभ्यां नमः ॥ १ ॥

ॐ मूलप्रकृतिरिति तर्जनीभ्यां नमः ॥ २ ॥

ॐ भूमहावराह इति मध्यमाभ्यां नमः ॥ ३ ॥

ॐ सूर्यवंशध्वजो राम इति अनामिकाभ्यां नमः ॥ ४ ॥

ॐ ब्रह्मादिकमलादिगदासूर्यकेशवमिति कनिष्ठिकाभ्यां नमः ॥ ५ ॥

शेष इति करतलकरपृष्ठाभ्यां नमः ।
इति करन्यासः ।

षडङ्गन्यासः
ॐ वासुदेवः परं ब्रह्म इति हृदयाय नमः ॥ १ ॥

ॐ मूलप्रकृति शिरसे स्वाहा ॥ २ ॥

ॐ भूमहावाराह इति शिखायै वषट् ॥ ३ ॥

ॐ सूर्यवंशध्वजो रामः इति कवचाय हुं ॥ ४ ॥

ब्रह्मादिकमलादिगदासूर्यकेशवः नेत्रत्रयाय वौषट ॥ ५ ॥

ॐ दिव्यास्त्र इत्यस्त्राय फट् ॥ ६ ॥

इति हदयादिषडङ्गान्यासः ॥ ७ ॥

॥ ध्यानम् ॥

विष्णुं भास्वत्किरीटाङ्गदवलयगणाकल्पहारोदरांघ्रि-
श्रोणीभूषं सुवक्षोमणिमकरमहाकुण्डलं मण्डितांसम् ।
हस्तोद्यच्चक्रशङ्खाम्बुजगदलमलं पीतकौशयवासो –
विद्युद्भासं समुद्यद्दिनकरसदृशं पद्महस्तं नमामि ॥ ८ ॥

ॐ वासुदेवः परं ब्रह्म परमात्मा परात्परम् ।
परं धाम परं ज्योतिः परं तत्त्वं परं पदम् ॥ ९ ॥

परं शिवं परो ध्येयः परं ज्ञानं परा गतिः ।
परमार्थः परं श्रेयः परानन्दः परोदयः ॥ १० ॥

परो व्यक्तः परं व्योम परार्धः परमेश्वरः ।
निरामयो निर्विकारो निर्विकल्पो निराश्रयः ॥ ११ ॥

निरञ्जनो निरालम्बो निर्लेपो निरवग्रहः ।
निर्गुणोनिष्कलोऽनन्तोऽचिन्त्योऽसावचलोऽच्युतः ॥ १२ ॥

अतीन्द्रियोऽमितोऽरोध्योऽनीहोऽनीशोऽव्ययोऽक्षयः ।
सर्वज्ञः सर्वगः सर्वः सर्वदः सर्वभावनः ॥ १३ ॥

शर्वः शम्भुः सर्वसाक्षी पूज्यः सर्वस्य सर्वदृक् ।
सर्वशक्तिः सर्वसारः सर्वात्मा सर्वतोमुखः ॥ १४ ॥

सर्वावासः सर्वरूपः सर्वादि सर्वदुःखहा ।
सर्वार्थः सर्वतोभद्रः सर्वकारणकारणम् ॥ १५ ॥

सर्वातिशायकः सर्वाध्यक्षः सर्वेश्वरेश्वरः ।
षड्विंशको महाविष्णुर्महागुह्यो महाहरिः ॥ १६ ॥

नित्योदितो नित्ययुक्तो नित्यानन्दः सनातनः ।
मायापतिर्योगपतिः कैवल्यपतिरात्मभूः ॥ १७ ॥

जन्ममृत्युजरातीतः कालातीतो भवातिगः ।
पूर्णः सत्यः शुद्धबुद्धस्वरूपो नित्यचिन्मयः ॥ १८ ॥

योगिप्रियो योगमयो भवबन्धैकमोचकः ।
पुराणः पुरुषः प्रत्यक् चैतन्यं पुरुषोत्तमः ॥ १९ ॥

वेदान्तवेद्यो दुर्ज्ञेयस्तापत्रयविवर्जितः ।
ब्रह्मविद्याश्रयोऽलङ्घ्यः स्वप्रकाशः स्वयम्प्रभः ॥ २० ॥

सर्वोपेय उदासीनः प्रणवः सर्वतः समः ।
सर्वानवद्यो दुष्प्रापस्तुरीयस्तमसः परः ॥ २१ ॥

कूटस्थः सर्वसंश्लिष्टो वाङ्गमनोगोचरातिगः ।
सङ्कर्षणः सर्वहरः कालः सर्वभयङ्करः ॥ २२ ॥

अनुल्लघ्यं सर्वगतिर्महारुद्रो दुरासदः ।
मूलप्रकृतिरानन्दः प्रज्ञाता विश्वमोहनः ॥ २३ ॥

महामायो विश्वबीजः पराशक्तिसुखैकभुक् ।
सर्वकाम्योऽनन्तशीलः सर्वभूतवशङ्करः ॥ २४ ॥

अनिरुद्धः सर्वजीवो हृषीकेशो मनःपतिः ।
निरुपाधिः प्रियो हंसोऽक्षरः सर्वनियोजकः ॥ २५ ॥

ब्रह्मा प्राणेश्वरः सर्वभूतभृद्देहनायकः ।
क्षेत्रज्ञः प्रकृतिस्वामी पुरुषो विश्वसूत्रधृक् ॥ २६ ॥

अन्तर्यामी त्रिधामाऽन्तःसाक्षी त्रिगुण ईश्वरः ।
योगी मृग्यः पद्मनाभः शेषशायी श्रियः पतिः ॥ २७ ॥

श्रीसत्योपास्यपादाब्जोऽनन्तः श्रीः श्रीनिकेतनः ।
नित्यवक्षःस्थलस्थश्रीः श्रीनिधिः श्रीधरो हरिः ॥ २८ ॥

रम्यश्रीर्निश्चयश्रीदो विष्णुः क्षीराब्धिमन्दिरः ।
कौस्तुभोद्भासितोरस्को माधवो जगदार्तिहा ॥ २९ ॥

श्रीवत्सवक्षा निःसीमः कल्याणगुणभाजनम् ।
पीताम्बरो जगन्नाथो जगद्धाता जगत्पिता ॥ ३० ॥

जगद्बन्धुर्जगत्स्रष्टा जगत्कर्ता जगन्निधिः ।
जगदेकस्फुरद्वीर्यो नाहंवादी जगन्मयः ॥ ३१ ॥

सर्वाश्चर्यमयः सर्वसिद्धार्थः सर्ववीरजित् ।
सर्वामोघोद्यमो ब्रह्मरुद्राद्युत्कृष्टचेतनः ॥ ३२ ॥

शम्भोः पितामहो ब्रह्मपिता शक्राद्यधीश्वरः ।
सर्वदेवप्रियः सर्वदेववृत्तिरनुत्तमः ॥ ३३ ॥

सर्वदेवैकशरणं सर्वदेवैकदैवतम् ।
यज्ञभुग् यज्ञफलदो यज्ञेशो यज्ञभावनः ॥ ३४ ॥

यज्ञत्राता यज्ञपुमान् वनमाली द्विजप्रियः ।
द्विजैकमानदोऽहिंस्रः कुलदेवोऽसुरान्तकः ॥ ३५ ॥

सर्वदुष्टान्तकृत् सर्वसज्जनानन्दपालकः ।
सर्वलोकैकजठरः सर्वलोकैकमण्डलः ॥ ३६ ॥

सृष्टिस्थित्यन्तकृच्चक्री शार्ङ्गधन्वा गदाधरः ।
शङ्खभृन्नन्दकी पद्मपाणिर्गरुडवाहनः ॥ ३७ ॥

अनिर्देश्यवपु सर्वः सर्वलोकैकपावनः ।
अनन्तकीर्तिर्निः श्रीशः पौरुषः सर्वमङ्गलः ॥ ३८ ॥

सूर्यकोटिप्रतीकाशो यमकोटिविनाशनः ।
ब्रह्मकोटिजगत्स्रष्टा वायुकोटिमहाबलः ॥ ३९ ॥

कोटीन्दुजगदानन्दी शम्भुकोटिमहेश्वरः ।
कुबेरकोटिलक्ष्मीवान् शत्रुकोटिविनाशनः ॥ ४० ॥

कन्दर्पकोटिलावण्यो दुर्गकोटिविमर्द्धनः ।
समुद्रकोटिगम्भीरस्तीर्थकोटिसमाह्वयः ॥ ४१ ॥

हिमवत्कोटिनिष्कम्पः कोटिब्रह्माण्डविग्रहः ।
कोट्यश्वमेधपापघ्नो यज्ञकोटिसमार्चनः ॥ ४२ ॥

सुधाकोटिस्वास्थ्यहेतुः कामधुक्कोटिकामदः ।
ब्रह्मविद्याकोटिरूपः शिपिविष्टः शुचिश्रवाः ॥ ४३ ॥

विश्वम्भरस्तीर्थपादः पुण्यश्रवणकीर्तनः ।
आदिदेवो जगज्जैत्रो मुकुन्दः कालनेमिहा ॥ ४४ ॥

वैकुण्ठोऽनन्तमाहात्म्यो महायोगीश्वरेश्वरः ।
नित्यतृप्तोऽथ सद्भावो निःशङ्को नरकान्तकः ॥ ४५ ॥

दीनानाथैकशरणं विश्वैकव्यसनापहा ।
जगत्क्षमाकृतो नित्यो कृपालुः सज्जनाश्रयः ॥ ४६ ॥

योगेश्वरः सदोदीर्णो वृद्धिक्षयविवर्जितः ।
अधोक्षजो विश्वरेता प्रजापतिसभाधिपः ॥ ४७ ॥

शक्रब्रह्मार्चितपदः शम्भुब्रह्मोर्ध्वधामगः ।
सूर्यसोमेक्षणो विश्वभोक्ता सर्वस्य पारगः ॥ ४८ ॥

जगत्सेतुर्धर्मसेतुर्धीरोऽरिष्टधुरन्यरः ।
निर्ममोऽखिललोकेशो निःसङ्गोऽद्भुतभोगवान् ॥ ४९ ॥

रम्यमायो विश्वविश्वो विष्वक्सेनो नगोत्तमः ।
सर्वाश्रयः पतिर्देव्या सर्वभूषणभूषितः ॥ ५० ॥

सर्वलक्षणलक्षण्यः सर्वदैत्येन्द्रदर्पहा ।
समस्तदेवसर्वज्ञः सर्वदैवतनायकः ॥ ५१ ॥

समस्तदेवतादुर्गः प्रपन्नाशनिपञ्जरः ।
समस्तदेवकवचं सर्वदेवशिरोमणिः ॥ ५२ ॥

समस्तभयनिर्भिन्नो भगवान् विष्टरश्रवाः ।
विभुः सर्वहितोदर्को हतारिः सुगतिप्रदः ॥ ५३ ॥

सर्वदैवतजीवेशो ब्राह्मणादिनियोजकः ।
ब्रह्मशम्भुपरार्धाढ्यी ब्रह्मज्येष्ठः शिशुः स्वराट् ॥ ५४ ॥

विराट् भक्तपराधीनः स्तुत्यः सर्वार्थसाधकः ।
सर्वार्थकर्ता कृत्यज्ञः स्वार्थकृत्यमदोज्झितः ॥ ५५ ॥

सदा नवः सदा भद्रः सदा शान्तः सदा शिवः ।
सदा प्रियः सदा तुष्टः सदा पुष्टः सदार्चितः ॥ ५६ ॥

सदा पूतः पावनाग्रो वेदगुह्यो वृषाकपिः ।
सहस्रनामा त्रियुगश्चतुमूर्तिश्चतुर्भुजः ॥ ५७ ॥

भूतभव्यभवन्नाथो महापुरुषपूर्वजः ।
नारायणो मुञ्जकेशः सर्वयोगविनिस्मृतः ॥ ५८ ॥

वेदसारो यज्ञसारः सामसारस्तपोनिधिः ।
साध्यश्रेष्ठः पुराणर्षिर्निष्ठाशान्तिपरायणः ॥ ५९ ॥

शिवस्त्रिशूलविध्वंसी श्रीकण्ठैकवरप्रदः ।
नरकृष्णो हरिर्धर्मनन्दनो धर्मजीवनः ॥ ६० ॥

आदिकर्ता सर्वसत्यः सर्वस्त्रीरत्नदर्पहा ।
त्रिकालो जितकन्दर्प उर्वशीदृङ्मुनीश्वरः ॥ ६१ ॥

आद्यः कविर्हयग्रीवः सर्ववागीश्वरेश्वरः ।
सर्वदेवमयो ब्रह्म गुरुर्वाग्मीश्वरीपतिः ॥ ६२ ॥

अनन्तविद्याप्रभवो मूलाविद्याविनाशकः ।
सर्वार्हणो जगज्जाढ्यनाशको मधुसूदनः ॥ ६३ ॥

अनन्तमन्त्रकोटीशः शब्दब्रह्मैकपावकः ।
आदिविद्वान् वेदकर्ता वेदात्मा श्रुतिसागरः ॥ ६४ ॥

ब्रह्मार्थवेदाभरणः सर्वविज्ञानजन्मभूः ।
विद्याराजो ज्ञानराजो ज्ञानसिन्धुरखण्डधीः ॥ ६५ ॥

मत्स्यदेवो महाश‍ृङ्गो जगद्बीजवहित्रधृक् ।
लीलाव्याप्तानिलाम्भोधिश्चतुर्वेदप्रर्वतकः ॥ ६६ ॥

आदिकूर्मोऽखिलाधारस्तृणीकृतजगद्भवः ।
अमरीकृतदेवौघः पीयूषोत्पत्तिकारणम् ॥ ६७ ॥

आत्माधारो धराधारो यज्ञाङ्गो धरणीधरः ।
हिरण्याक्षहरः पृध्वीपतिः श्राद्धादिकल्पकः ॥ ६८ ॥

समस्तपितृभीतिघ्नः समस्तपितृजीवनम् ।
हव्यकव्यैकभुग्भव्यो गुणभव्यैकदायकः ॥ ६९ ॥

लोमान्तलीनजलधिः क्षोभिताशेषसागरः ।
महावराहो यज्ञघ्नध्वंसनो याज्ञिकाश्रयः ॥ ७० ॥

नरसिंहो दिव्यसिंहः सर्वारिष्टार्तिदुःखहा ।
एकवीरोऽद्भुतबलो यन्त्रमन्त्रैकभञ्जनम् ॥ ७१ ॥

ब्रह्मादिदुःसहज्योतिर्युगान्ताग्न्यतिभीषणः ।
कोटिवज्राधिकनखो गजदुष्प्रेक्षमूर्तिधृक् ॥ ७२ ॥

मातृचक्रप्रमथनो महामातृगणेश्वरः ।
अचिन्त्योऽमोघवीर्याढ्यः समस्तासुरघस्मरः ॥ ७३ ॥

हिरण्यकशिपुच्छेदी कालः सङ्कर्षणः पतिः ।
कृतान्तवाहनः सद्यः समस्तभयनाशनः ॥ ७४ ॥

सर्वविघ्नान्तकः सर्वसिद्धिदः सर्वपूरकः ।
समस्तपातकध्वंसी सिद्धमन्त्राधिकाह्वयः ॥ ७५ ॥

भैरवेशो हरार्तिघ्न कालकल्पो दुरासदः ।
दैत्यगर्भस्राविनामा स्फुरद्ब्रह्माण्डवर्जितः ॥ ७६ ॥

स्मृतिमात्राखिलत्राता भूतरूपो महाहरिः ।
ब्रह्मचर्मशिरःपट्टा दिक्पालोऽर्धाङ्गभूषणः ॥ ७७ ॥

द्वादशार्कशिरोदामा रुद्रशीर्षैकनूपुरः ।
योगिनीग्रस्तगिरिजारतो भैरवतर्जकः ॥ ७८ ॥

वीरचक्रेश्वरोऽत्युग्रो यमारिः कालसंवरः ।
क्रोधेश्वरो रुद्रचण्डीपरिवादी सुदुष्टभाक् ॥ ७९ ॥

सर्वाक्षः सर्वमृत्युश्च मृत्युर्मृत्युनिर्वतकः ।
असाध्यः सर्वरोगघ्नः सर्वदुर्ग्रहसौम्यकृत् ॥ ८० ॥

गणेशकोटिदर्पघ्नो दुःसहोऽशेषगोत्रहा ।
देवदानवदुर्धषो जगद्भक्ष्यप्रदः पिता ॥ ८१ ॥

समस्तदुर्गतित्राता जगद्भक्षकभक्षकः ।
उग्रेशोऽसुरमार्जारः कालमूषकभक्षकः ॥ ८२ ॥

अनन्तायुधदोर्द्दण्डो नृसिंहो वीरभद्रजित् ।
योगिनीचक्रगुह्येशः शक्रारिः पशुमांसभुक् ॥ ८३ ॥

रुद्रो नारायणो मेषरूपशङ्करवाहनः ।
मेषरूपी शिवत्राता दुष्टशक्तिसहस्रभुक् ॥ ८४ ॥

तुलसीवल्लभो वीरोऽचिन्त्यमायोऽखिलेष्टदः ।
महाशिवः शिवारुद्रो भैरवैककपालभूत् ॥ ८५ ॥

भिल्लश्चक्रेश्वरः शक्रो दिव्यमोहनरूपधृक् ।
गौरीसौभाग्यदो मायानिधिर्मायाभयापहः ॥ ८६ ॥

ब्रह्मतेजोमयो ब्रह्म श्रीमयश्च त्रयीमयः ।
सुब्रह्मण्यो बलिध्वंसी वामनोऽदितिदुःखहा ॥ ८७ ॥

उपेन्द्रो नृपतिर्विष्णुः कश्यपान्वयमण्डनः ।
बलिस्वाराज्यदः सर्वदेवविप्रात्मदोऽच्युतः ॥ ८८ ॥

उरुक्रमस्तीर्थपादस्त्रिदशश्च त्रिविक्रमः ।
व्योमपादः स्वपादाम्भःपवित्रितजगत्त्रयः ॥ ८९ ॥

ब्रह्मेशाद्यभिवन्द्याङ्घ्रिर्द्रुतकर्माद्रिधारणः ।
अचिन्त्याद्भुतविस्तारो विश्ववृक्षो महाबलः ॥ ९० ॥

बहुमूर्धा पराङ्छिद्रभृगुपत्नीशिरोहरः ।
पापस्तेयः सदापुण्यो दैत्येशो नित्यखण्डकः ॥ ९१ ॥

पूरिताखिलदेवेशो विश्वार्थैकावतारकृत् ।
अमरो नित्यगुप्तात्मा भक्तचिन्तामणिः सदा ॥ ९२ ॥

वरदः कार्तवीर्यादिराजराज्यप्रदोऽनघः ।
विश्वश्लाघ्योऽमिताचारो दत्तात्रेयो मुनीश्वरः ॥ ९३ ॥

पराशक्तिसमायुक्तो योगानन्दमदोन्मदः ।
समस्तेन्द्रारितेजोहृत् परमानन्दपादपः ॥ ९४ ॥

अनसूयागर्भरत्नो भोगमोक्षसुखप्रदः ।
जमदग्निकुलादित्यो रेणुकाद्भुतशक्तिहृत् ॥ । ९५ ॥

मातृहत्यघनिर्लेपः स्कन्दजिद्विप्रराज्यदः ।
सर्वक्षत्रान्तकृद्वीरदर्पहा कार्तवीर्यजित् ॥ ९६ ॥

योगी योगावतारश्च योगीशो योगवत्परः ।
परमानन्ददाता च शिवाचार्ययशःप्रदः ॥ ९७ ॥

भीमः परशुरामश्च शिवाचार्यैकविश्वभूः ।
शिवाखिलज्ञानकोषो भीष्माचार्योऽग्निदैवतः ॥ ९८ ॥

द्रोणाचार्यगुरुर्विश्वजैत्रधन्वा कृतान्तकृत् ।
अद्वितीयतमोमूर्तिर्ब्रह्मचर्यैकदक्षिणः ॥ ९९ ॥

मनुश्रेष्ठः सतां सेतुर्महीयान् वृषभो विराट् ।
आदिराजः क्षितिपिता सर्वरत्नैकदोहकृत् ॥ १०० ॥

पृथुजन्माद्येकदक्षो ह्रीः श्रीः कीर्तिः स्वयंधृतिः ।
जगद्वृत्तिप्रदश्चक्रवर्तिश्रेष्ठो दुरस्त्रधृक् ॥ १०१ ॥

सनकादिमुनिप्राप्तभगवद्भक्तिवर्धनः ।
वर्णाश्रमादिधर्माणां कर्ता वक्ता प्रवर्तकः ॥ १०२ ॥

सूर्यवंशध्वजो रामो राधवः सद्गुणार्णवः ।
काकुत्स्थवीरताधर्मो राजधर्मधुरन्धरः ॥ १०३ ॥

नित्यसुस्थाशयः सर्वभद्रग्राही शुभैकदृक् ।
नवरत्नं रत्ननिधिः सर्वाध्यक्षो महानिधिः ॥ १०४ ॥

सर्वश्रेष्ठाश्रयः सर्वशस्त्रास्त्रग्रामवीर्यवान् ।
जगद्वशी दाशरथिः सर्वरत्नाश्रयो नृपः ॥ १०५ ॥

धर्मः समस्तधर्मस्थो धर्मद्रष्टाखिलार्तिहृत् ।
अतीन्द्रो ज्ञानविज्ञानपारदृश्वा क्षमाम्बुधिः ॥ १०६ ॥

सर्वप्रकृष्टः शिष्टेष्टो हर्षशोकाधनाकुलः ।
पित्राज्ञात्यक्तसाम्राज्यः सपत्नोदयनिर्भयः ॥ १०७ ॥

गुहादेशार्पितैश्वर्यः शिवस्पर्द्धाजटाधरः ।
चित्रकूटाप्तरत्नाद्रिजगदीशो रणेचरः ॥ १०८ ॥

यथेष्टामोघशस्त्रास्त्रो देवेन्द्रतनयाक्षिहा ।
ब्रह्मेन्द्रादिनतैषीको मारीचघ्नो विराधहा ॥ १०९ ॥

ब्रह्मशापहताशेषदण्डकारण्यपावनः ।
चतुर्दशसहस्राग्र्यरक्षोघ्नैकशरैकभृत् ॥ ११० ॥

खरारिस्त्रिशिरोहन्ता दूषणघ्नो जनार्दनः ।
जटायुषोऽग्निगतिदो कबन्धस्वर्गदायकः ॥ १११ ॥

लीलाधुनःकोट्यापास्तदुन्दुभ्यस्थिमहाचयः ।
सप्ततालव्यथाकृष्टध्वजपातालदानवः ॥ ११२ ॥

सुग्रीवे राज्यदो धीमान् मनसैवाभयप्रदः ।
हनूमद्रुद्रमुख्येशः समस्तकपिदेहभृत् ॥ ११३ ॥

अग्निदैवत्यबाणैकव्याकुलीकृतसागरः ।
सम्लिच्छकोटिबाणैकशुष्कनिर्दग्धसागरः ॥ ११४ ॥

सनागदैत्यधामैकव्याकुलीकृतसागरः ।
समुद्राद्भुतपूर्वैकबद्धसेतुर्यशोनिधिः ॥ ११५ ॥

असाध्यसाधको लङ्कासमूलोत्कर्षदक्षिणः ।
वरदृप्तजनस्थानपौलस्त्यकलकृन्तनः ॥ ११६ ॥

रावणघ्नः प्रहस्तच्छित् कुम्भकर्णभिदुग्रहा ।
रावणैकमुखच्छेत्ता निःशङ्केन्द्रैकराज्यदः ॥ ११७ ॥

स्वर्गास्वर्गत्वविच्छेदी देवेन्द्रादिन्द्रताहरः ।
रक्षोदेवत्वहृद्धर्मा धर्महर्म्यः पुरुष्टुतः ॥ ११८ ॥

नातिमात्रदशास्यारिर्दत्तराज्यविभीषणः ।
सुधासृष्टिभृताशेषस्वसैन्यजीवनैककृत् ॥ ११९ ॥

देवब्राह्मणनामैकधाता सर्वामरार्चितः ।
ब्रह्मसूर्येन्द्ररुद्रादिवन्द्योऽर्चितसतां प्रियः ॥ १२० ॥

अयोध्याखिलराजाग्र्य सर्वभूतमनोहरः ।
स्वाम्यतुल्यकृपादत्तो हीनोष्कृष्टैकसत्प्रियः ॥ १२१ ॥

स्वपक्षादिन्यायदर्शी हीनार्थोऽधिकसाधकः ।
बाधव्याजानुचितकृत्तावकोऽखिलतुष्टिकृत् ॥ १२२ ॥

पार्वत्यधिकयुक्तात्मा प्रियात्यक्तः सुरारिजित् ।
साक्षात्कुशलवत्सद्मेन्द्राग्निनातोऽपराजितः ॥ १२३ ॥

कोशलेन्द्रो वीरबाहुः सत्यार्थत्यक्तसोदरः ।
यशोदानन्दनो नन्दी धरणीमण्डलोदयः ॥ १२४ ॥

ब्रह्मादिकाम्यसान्निध्यसनाथीकृतदैवतः ।
ब्रह्मलोकाप्तचाण्डालाद्यशेषप्राणिसार्थपः ॥ १२५ ॥

स्वर्णीतगर्दभश्वादिचिरायोध्याबलैककृत् ।
रामाद्वितीयः सौमित्रिलक्ष्मणप्रहतेन्द्रजित् ॥ १२६ ॥

विष्णुभक्ताशिवांहःछित्पादुकाराज्यनिर्वृतः ।
भरतोऽसह्यगन्धर्वकोटिघ्नो लवणान्तकः ॥ १२७ ॥

शत्रुघ्नो वैद्यराडायुर्वेदगर्भौषधीपतिः ।
नित्यानित्यकरो धन्वन्तरिर्यज्ञो जगद्धरः ॥ १२८ ॥

सूर्यविघ्नः सुराजीवो दक्षिणेशो द्विजप्रियः ।
छिन्नमूर्धोपदेशार्कतनूजकृतमैत्रिकः ॥ १२९ ॥

शेषाङ्गस्थापितनरः कपिलः कर्दमात्मजः ।
योगात्मकध्यानभङ्गसगरात्मजभस्मकृत् ॥ १३० ॥

धर्मो विश्वेन्द्रसुरभीपतिः शुद्धात्मभावितः ।
शम्भुस्त्रिपुरदाहैकस्थैर्यविश्वरथोद्धतः ॥ १३१ ॥

विश्वात्माशेषरुद्रार्थशिरश्छेदाक्षताकृतिः ।
वाजपेयादिनामाग्निर्वेदधर्मापरायणः ॥ १३२ ॥

श्वेतद्वीपपतिः साङ्ख्यप्रणेता सर्वसिद्धिराट् ।
विश्वप्रकाशितध्यानयोगो मोहतमिस्रहा ॥ १३३ ॥

भक्तशम्भुजितो दैत्यामृतवापीसमस्तपः ।
महाप्रलयविश्वैकोऽद्वितीयोऽखिलदैत्यराट् ॥ १३४ ॥

शेषदेवः सहस्राक्षः सहस्राङ्घिशिरोभुजः ।
फणी फणिफणाकारयोजिताब्ध्यम्बुदक्षितिः ॥ १३५ ॥

कालाग्निरुद्रजनको मुसलास्त्रो हलायुधः ।
नीलाम्बरो वारुणीशो मनोवाक्कायदोषहा ॥ १३६ ॥

स्वसन्तोषतृप्तिमात्रः पातितैकदशाननः ।
बलिसंयमनो घोरो रौहिणेयः प्रलम्बहा ॥ १३७ ॥

मुष्टिकघ्नो द्विविदहा कालिन्दीभेदनो बलः ।
रेवतीरमणः पूर्वभक्तिरेवाच्युताग्रजः ॥ १३८ ॥

देवकीवसुदेवोत्थोऽदितिकश्यपनन्दनः ।
वार्ष्णेयः सात्वतां श्रेष्ठः शौरिर्यदुकुलोद्वहः ॥ १३९ ॥

नराकृतिः पूर्णब्रह्म सव्यसाची परन्तपः ।
ब्रह्मादिकामनानित्यजगत्पर्वेतशैशवः ॥ १४० ॥

पूतनाघ्नः शकटभिद्यमलार्जुनभञ्जनः ।
वत्सामुरारिः केशिघ्नो धेनुकारिर्गवीश्वरः ॥ १४१ ॥

दामोदरो गोपदेवो यशोदानन्दकारकः ।
कालीयमर्द्दनः सर्वगोपगोपीजनप्रियः ॥ १४२ ॥

लीलागोवर्धनधरो गोविन्दो गोकुलोत्सवः ।
अरिष्टमथनः कामोन्मत्तगोपीविमुक्तिदः ॥ १४३ ॥

सद्यः कुवलयापीडघाती चाणूरमर्दनः ।
कंसारिरुग्रसेनादिराज्यस्थाय्यरिहाऽमरः ॥ १४४ ॥

सुधर्मांकितभूलोको जरासन्धबलान्तकः ।
त्यक्तभक्तजरासन्धभीमसेनयशःप्रदः ॥ १४५ ॥

सान्दीपनिमृतापत्यदाता कालान्तकादिजित् ।
रुक्मिणीरमणो रुक्मिशासनो नरकान्तकृत् ॥ १४६ ॥

समस्तनरकत्राता सर्वभूपतिकोटिजित् ।
समस्तसुन्दरीकान्तोऽसुरारिर्गरुडध्वजः ॥ १४७ ॥

एकाकीजितरुद्रार्कमरुदापोऽखिलेश्वरः ।
देवेन्द्रदर्पहा कल्पद्रुमालङ्कृतभूतलः ॥ १४८ ॥

बाणबाहुसहस्रच्छित्स्कन्दादिगणकोटिजित् ।
लीलाजितमहादेवो महादेवैकपूजितः ॥ १४९ ॥

इन्द्रार्थार्जुननिर्मत्सुर्जयदः पाण्डवैकधृक् ।
काशीराजशिरस्छेत्ता रुद्रशक्त्येकमर्दनः ॥ १५० ॥

विश्वेश्वरप्रसादाढ्यः काशीराजसुतार्दनः ।
शम्भुप्रतिज्ञापाता च स्वयम्भुगणपूजकः ॥ १५१ ॥

काशीशगणकोटिघ्नो लोकशिक्षाद्विजार्चकः ।
शिवतीव्रतपोवश्यः पुरा शिववरप्रदः ॥ १५२ ॥

गयासुरप्रतिज्ञाधृक् स्वांशशङ्करपूजकः ।
शिवकन्याव्रतपतिः कृष्णरूपशिवारिहा ॥ १५३ ॥

महालक्ष्मीवपुर्गौरीत्राणो देवलवातहा ।
विनिद्रमुचुकुन्दैकब्रह्मास्त्रयुवनाश्वहृत् ॥ १५४ ॥

अक्रूरोऽक्रूरमुख्यैकभक्तस्वच्छन्दमुक्तिदः ।
सबालस्त्रीजलक्रीडाकृतवापीकृतार्णवः ॥ १५५ ॥

यमुनापतिरानीतपरिणीतद्विजात्मकः ।
श्रीदामशङ्कुभक्तार्थभूम्यानीतेन्द्रभैरवः ॥ १५६ ॥

दुर्वृत्तशिशुपालैकमुक्तिकोद्धारकेश्वरः ।
आचाण्डालादिकं प्राप्य द्वारकानिधिकोटिकृत् ॥ १५७ ॥

ब्रह्मास्त्रदग्धगर्भस्थपरीक्षिज्जीवनैककृत् ।
परिणीतद्विजसुतानेताऽर्जुनमदापहः ॥ १५८ ॥

गूढमुद्राकृतिग्रस्तभीष्माद्यखिलगौरवः ।
पार्थार्थखण्डिताशेषदिव्यास्त्रः पार्थमोहभृत् ॥ १५९ ॥

ब्रह्मशापच्छलध्वस्तयादवो विभवावहः ।
अनङ्गे जितगौरीशो रतिकान्तः सदेप्सितः ॥ १६० ॥

पुष्पेषुर्विश्वविजयी स्मरः कामेश्वरीपतिः ।
उषापतिर्विश्वहेतुर्विश्वतृप्तोऽधिपूरुषः ॥ १६१ ॥

चतुरात्मा चतुर्वर्णश्चतुर्वेदविधायकः ।
चतुर्विश्वैकविश्वात्मा सर्वोत्कृष्टासु कोटिषु ॥ १६२ ॥

आश्रयात्मा पुराणर्षिर्व्यासः शास्त्रसहस्रकृत् ।
महाभारतनिर्माता कवीन्द्रो वादरायणः ॥ १६३ ॥

कृष्णद्वैपायनः सर्वपुरुषार्थकबोधकः ।
वेदान्तकर्ता ब्रह्मैकव्यञ्जकः पुरुवंशकृत् ॥ १६४ ॥

बुद्धो ध्यानजिताशेषदेवदेवो जगत्प्रियः ।
निरायुधो जगज्जैत्रः श्रीधनो दुष्टमोहनः ॥ १६५ ॥

दैत्यवेदबहिष्कर्त्ता वेदार्थश्रुतिगोपकः ।
शुद्धोदनिर्नष्टदिष्टः सुखदः सदसत्पतिः ॥ १६६ ॥

यथायोग्याखिलकुपः सर्वशून्योऽखिलेष्टदः ।
चतुष्कोटिपृथक्तत्त्वं प्रज्ञापारमितेश्वरः ॥ १६७ ॥

पाषण्डश्रुतिमार्गेण पाषण्डश्रुतिगोपकः ।
कल्की विष्णुयशः पूतः कलिकालविलोपकः ॥ १६८ ॥

समस्तम्लेच्छहस्तघ्नः सर्वशिष्टद्विजातिकृत् ।
सत्यप्रवर्त्तको देवद्विजदीर्घक्षुधापहः ॥ १६९ ॥

अवगवादिवेदेन पृथ्वीदुर्गतिनाशनः ।
सद्यः क्ष्मानन्तलक्ष्मीकृत् नष्टनिः शेष धर्मकृत् ॥ १७० ॥

अनन्तस्वर्गयागैकहेमपूर्णाखिलद्विजः ।
असाध्यैकजगच्छास्ता विश्ववन्द्यो जयध्वजः ॥ १७१ ॥

आत्मतत्त्वाधिपः कृर्तृश्रेष्ठो विधिरुमापतिः ।
भर्तुः श्रेष्ठः प्रजेशाग्र्यो मरीचिजनकाग्रणीः ॥ १७२ ॥

कश्यपो देवरादिन्द्रः प्रह्लादो दैत्यराट् शशी ।
नक्षत्रेशो रविस्तेजः श्रेष्ठः शुक्रः कवीश्वरः ॥ १७३ ॥

महर्षिराट् भृगुर्विष्णुरादित्येशो बलिः स्वराट् ।
वायुर्वह्निः शुचिश्रेष्ठः शङ्करो रुद्रराट् गुरुः ॥ १७४ ॥

विद्वत्तमश्चित्ररथो गन्धर्वाग्र्यो वसूत्तमः ।
वर्णादिरग्र्या स्त्री गौरी शक्त्यग्र्या श्रीश्च नारदः ॥ १७५ ॥

देवर्षिराट् पाण्डवाग्र्योऽर्जुनो नारदवादराट् ।
पवनः पवनेशानो वरुणो यादसाम्पतिः ॥ १७६ ॥

गङ्गातीर्थोत्तमोद्भूतं छत्रकाग्र्यवरौषधम् ।
अन्नं सुदर्शनास्त्राग्र्यो वज्रप्रहरणोत्तमम् ॥ १७७ ॥

उच्चैःश्रवा वाजिराजः ऐरावत इभेश्वरः ।
अरुन्धत्येकपत्नीशो ह्यश्वत्थोऽशेषवृक्षराट् ॥ १७८ ॥

अध्यात्मविद्याविद्यात्मा प्रणवश्छन्दसां वरः ।
मेरुर्गिरिपतिर्भार्गो मासाग्र्यः कालसत्तमः ॥ १७९ ॥

दिनाद्यात्मा पूर्वसिद्धिः कपिलः सामवेदराट् ।
तार्क्ष्यः खगेन्द्रो ऋत्वग्र्यो वसन्तः कल्पपादपः ॥ १८० ॥

दातृश्रेष्ठः कामधेनुरार्तिघ्नाग्र्यः सुरोत्तमः ।
चिन्तामणिर्गुरुश्रेष्ठो माता हिततमः पिता ॥ १८१ ॥

सिंहो मृगेन्द्रो नागेन्द्रो वासुकिर्भूधरो नृपः ।
वणशो ब्राह्मणश्चान्तः करणाग्र्यं नमो नमः ॥ १८२ ॥

इत्येतद्वासुदेवस्य विष्णोर्नामसहस्रकम् ।
सर्वापराधशमनं परं भक्तिविवर्द्धनम् ॥ १८३ ॥

अक्षयब्रह्मलोकादिसर्वार्थाप्येकसाधनम् ।
विष्णुलोकैकसोपानं सर्वदु:खविनाशनम् ॥ १८४ ॥

समस्तसुखदं सत्यं परं निर्वाणदायकम् ।
कामक्रोधादिनिःशेषमनोमलविशोधनम् ॥ १८५ ॥

शान्तिदं पावनं नृणां महापाताकिनामपि ।
सर्वेषां प्राणिनामाशु सर्वाभीष्टफलप्रदम् ॥ १८६ ॥

सर्वविघ्नप्रशमनं सर्वारिष्टविनाशनम् ।
घोरदुःस्वप्नशमनं तीव्रदारिद्र्यनाशनम् ॥ १८७ ॥

तापत्रयापहं गुह्यं धनधान्ययशस्करम् ।
सर्वैश्वर्यप्रदं सर्वसिद्धिदं सर्वकामदम् ॥ १८८ ॥

तीर्थयज्ञतपोदानव्रतकोटिफलप्रदम् ।
अप्रज्ञजाड्यशमनं सर्वविद्याप्रवर्त्तकम् ॥ १८९ ॥

राज्यदं राज्यकामानां रोगिणां सर्वरोगनुत् ।
वन्ध्यानां सुतदं चाशु सर्वश्रेष्ठफलप्रदम् ॥ १९० ॥

अस्त्रग्रामविषध्वंसी ग्रहपीडाविनाशनम् ।
माङ्गल्यं पुण्यमायुष्यं श्रवणात् पठनाज्जपात् ॥ १९१ ॥

सकृदस्याखिला वेदाः साङ्गा मन्त्राश्च कोटिशः । ।
पुराणशास्त्रं स्मृतयः पठिताः पठितास्तथा ॥ १९२ ॥

जप्त्वास्य श्लोकं श्लोकार्धं पादं वा पठतः प्रिये ।
नित्यं सिध्यति सर्वेषामचिरात्किमुतोऽखिलम् ॥ १९३ ॥

प्राणेन सदृशं सद्यः प्रत्यहं सर्वकर्मसु ।
इदं भद्रे त्वया गोप्यं पाठ्यं स्वार्थैकसिद्धये ॥ १९४ ॥

नावैष्णवाय दातव्यं विकल्पोपहृतात्मने ।
भक्तिश्रद्धाविहीनाय विष्णुसामान्यदर्शिने ॥ १९५ ॥

देयं पुत्राय शिष्याय शुद्धाय हितकाम्यया ।
मत्प्रसादादृते नेदं ग्रहिष्यन्त्यल्पमेधसः ॥ १९६ ॥

कलौ सद्यः फलं कल्पग्राममेष्यति नारदः ।
लोकानां भाग्यहीनानां येन दुःखं विनश्यति ॥ १९७ ॥

क्षेत्रेषु वैष्णवेष्वेतदार्यावर्त्ते भविष्यति ।
नास्ति विष्णोः परं सत्यं नास्ति विष्णोः परम्पदम् ॥ १९८ ॥

नास्ति विष्णो परं ज्ञानं नास्ति मोक्षो ह्यवैष्णवः ।
नास्ति विष्णोः परो मन्त्रो नास्ति विष्णोः परं तपः ॥ १९९ ॥

नास्ति विष्णो परं ध्यानं नास्ति मन्त्रो ह्यवैष्णवः ।
किं नास्य बहुभिर्मन्त्रैः किं जपैर्बहुविस्तरैः ॥ २०० ॥

वाजपेयसहस्रैः किं भक्तिर्यस्य जनार्दने ।
सर्वतीर्थमयो विष्णुः सर्वशास्त्रमयः प्रभु ॥ २०१ ॥

सर्वक्रतुमयो विष्णुः सत्यं सत्यं वदाम्यहम् ।
आब्रह्मसारसर्वस्य सर्वमेतन्मयोदितम् ॥ २०२ ॥

श्रीपार्वत्युवाच-
धन्यास्म्यनुगृहितास्मि कृतार्थास्मि जगत्पते ।
यन्मयेदं श्रुतं स्तोत्रं त्वद्रहस्यं सुदुर्लभम् ॥ २०३ ॥

अहो बत महत्कष्टं समस्त सुखदे हरौ ।
विद्यमानेऽपि सर्वेशे मूढाः क्लिश्यन्ति संसृतौ ॥ २०४ ॥

यमुद्दिश्यसदा नाथो महेशोऽपि दिगम्बरः ।
जटिलो भस्मलिप्ताङ्गस्तपस्वी वीक्षितो जनैः ॥ २०५ ॥

अतोऽधिको न देवोऽस्ति लक्ष्मीकान्तान्मधुद्विषः ।
यतत्वं चिन्त्यते नित्यं त्वया योगीश्वरेण हि ॥ २०६ ॥

अतःपरं किमधिकं पदं श्रीपुरुषोत्तमात् ।
तमविज्ञाय तान् मूढा यजन्ते ज्ञानमानिनः ॥ २०७ ॥

मुषितास्मि त्वया नाथ चिरं यदयमीश्वरः ।
प्रकाशितो न मे यस्य दत्ताद्या दिव्यशक्तयः ॥ २०८ ॥

अहो सर्वेश्वरो विष्णुः सर्वदेवोत्तमोत्तमः ।
भवदादिगुरुर्मूढैः सामान्य इव लक्ष्यते ॥ २०९ ॥

महीयसां हि माहात्म्यं भजमानान् भजन्ति चेत् ।
द्विषतोऽपि तथा पापानुपेक्ष्यन्ते क्षमालयाः ॥ २१० ॥

मयापि बाल्ये स्वपितुः प्रज्ञा दृष्टा बुभुक्षिताः ।
दुखादशक्ताः स्वं पोष्टुं श्रिया नाध्यासिताः पुरा ॥ २११ ॥

त्वया संवर्धिताभिश्च प्रजाभिर्विबुधादयः ।
विससद्भिः स्वशक्त्याद्याः समुहृन्मित्रबान्धवाः ॥ २१२ ॥
त्वया विना क्व देवत्वं क्व धैर्यं क्य परिग्रहः ।
सर्वे भवन्ति जीवन्तो यातनाः शिरसि स्थिताः ॥ २१३ ॥

नामृते नैव धर्मार्थौ कामो मोक्षोऽपि दुर्लभः ।
क्षुधितानां दुर्गतानां कुतो योगसमाधयः ॥ २१४ ॥

सा च संसारसारैका सर्वलोकैकपालिका ।
वश्या सा कमला यस्य त्यक्त्वा त्वामपि शङ्करः ॥ २१५ ॥

श्रिया धर्मेण शौर्येण रूपेणार्चवसम्पदा ।
सर्वातिशयवीर्येण सम्पूर्णस्य महात्मनः ॥ २१६ ॥

कस्तेन तुल्यतामेति देवदेवेन विष्णुना ।
यस्यांशांशकभागेन विना सर्व विलीयते ॥ २१७ ॥

जगदेतत्तथा प्राहुर्दोषायैतद्विमोहिताः ।
नास्य जन्म जरा मृत्युर्नाप्राप्यं वार्थमेव वा ॥ २१८ ॥

तथापि कुरुते धर्मान् पालनाय सतां कृते ।
विज्ञापय महादेव प्रणम्यकं महेश्वरम् ॥ २१९ ॥

अवधार्य तथा साहं कान्त कामद शाश्वत ।
कामाद्यासक्तचित्तत्वात् किं तु सर्वेश्वर प्रभो ॥ २२० ॥

त्वन्मयत्वात्प्रसादाद्वा शक्नोमि पठितुं न चेत् ।
विष्णोः सहस्रनामैतत्प्रत्यहं वृषभध्वज ॥
नाम्नैकेन तु येन स्यात्तत्फलं ब्रूहि मे प्रभो ॥ २२१ ॥

श्रीमहादेव उवाच-
राम रामेति रामेति रमेरामे मनोरमे ।
सहस्रनामभिस्तुल्यं रामनाम वरानने ॥ २२२ ॥

अथ सर्वाणि तीर्थानि जलञ्चैव प्रयागजम् ।
विष्णोर्नामसहस्रस्य कलां नार्हन्ति षोडशीम् ॥ २२३ ॥

॥ इति श्रीनारदपञ्चरात्रे ज्ञानामृतसारे चतुर्थरात्रे
पार्वतीशिवसंवादे श्रीविष्णोर्नामसहस्रं सम्पूर्णम् ॥

– Chant Stotra in other Languages -1000 Names of Sri Vishnu:

1000 Names of Sri Vishnu – Sahasranama Stotram in Hindi – EnglishBengaliGujaratiKannadaMalayalam – OriyaTeluguTamil

Leave a Reply

Your email address will not be published. Required fields are marked *